Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 223
________________ 214 Traverses on less trodden path .. मोहाभिभूतत्वं चतुर्थ कारणं नास्तिकतायाः इत्युक्तपूर्वमेवास्माभिः । चार्वाकास्तु, 'यावज्जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्थीभूतस्य देहस्य पुनरागमन कुतः । इति उद्घोषयन्तः मोहात, तत्त्वं अजानानाः पापाचरणं, अनाचाररुचाचरन्ति । अतः ते एव नास्तिकाः । ___'यो वेदस्य कर्तारो भण्डधूर्तनिशाचरा' इत्यादिना बुद्धिषौषहीनः आजीविकार्थ वेदरचना कृतेति कठोरशब्दैः वेदनिन्दा कुर्वन्ति, वेदनिन्दकत्वात् तेषां नास्तिकता। 'प्रत्यक्षमेवैकं प्रमाणं' इति 9 सिद्धान्तमङ्गीकृत्य नास्ति सर्वज्ञः प्रत्यक्षादिगोचरातिक्रान्तत्वादिति , ईश्वरास्तित्वमेत्र निराकुर्वते चार्वाकाः । अतः ईश्वरास्तित्वनिराकरणात नास्तिकास्ते । इदं सुस्पष्टं यत् षड्भिरपि कारणैः चार्वाकाः नास्तिकपदव्यपदेशभाजो भवन्ति । सम्प्रति जैनदर्शनाभ्युपगतसिद्धान्तेषु निक्षिप्यते समालोचनात्मकं चक्षुः येन सुस्पष्टं भवेद् जैनदर्शनाय आस्तिकता पूर्वप्रदर्शितषभिरपि कारणैः । विद्यानंदि31, प्रभाचद्र, हेमचन्द्र 5, मल्लिषेण, गुणरत्नादयो, जैनदर्शनधुरंधराः स्वग्रन्थेषु दर्शनान्तराणीव चार्वाकदर्शनं पूर्वपक्षरूपेण संस्थाप्य कठोरशब्दैः सप्रमाणं तत्खण्डनं विधाय नास्तिकदर्शनमिति स्पष्टमुद्घोषयन्ति । प्रत्यक्षमेव प्रमाणमिति सिद्धान्तमभ्युपगम्य प्रत्यक्षप्रमाणागोचरत्वादात्म-पापपुण्यपरलोकमोक्षादीनां निराकरणकर्तृणां चार्वाकाणामभिमतसिद्धान्ततरोमले कुठाराघातं विधाय नास्तिकतायाः खण्डनं विधीयते जैनसिद्धान्तमर्मज्ञैर्यथा-"चार्वाकाणां प्रत्यक्षमेवेक प्रमाण. मिति कथननपि अनुमानप्रमाणमेवावलम्ब्य वर्तते । यतोहि चार्वाकः स्वसिद्धान्तस्थापनाय काश्चन युक्तयः प्रदर्शनीयाः भवन्ति याभिस्तैः प्रतिपाद्यमानप्रत्यक्षप्रमाणिकतैव सिध्येत । यदि चार्वाकाः युक्त्या प्रत्यक्षप्रमाणतां साधयन्ति चेत , 'साधनात् साध्यविज्ञान', इत्यनुमानप्रमाणेनैव प्रत्यक्षमेवैकं प्रमाणमिति मतस्य तस्य मूलोच्छेदो भवति । विद्या नंन्दिना स्पष्टमेतत् प्रतिपादितं अष्टसहस्त्र्यां, यत् प्रत्यक्षं प्रमाण अविसंवादित्वात्, अनुमानादिकं अप्रमाणं विसंवादित्वादिति लक्षयतोऽनुमानस्य बलात् व्यवस्थिते न प्रत्यक्षमेकमेव प्रमाणमिति व्यवतिष्ठते । अनेन तेषां प्रत्यक्षप्रमाणगोचरातिकान्तत्वात आत्म-पलोकादिनिरासरूपः प्रजल्पोऽपि निरस्तो भवति । 27. बार्हस्पत्यसूत्र 45. 28. 48. 29. . 25. 30. चार्वाकषष्टि-परिशिष्ट-७९ 31. अष्टसहस्री-पृ. ३५-४० 32. प्रमेयकमलमार्तण्ड-पृ.१०.१२ ; न्यायकुमुदचन्द्र-९७-१०१. 33. अन्य योगव्यबच्छेदिका-श्लोक २० 34. स्याद्वादमञ्जरी १९२-१९६ 35. षड्दर्शनसमुच्चयटीका पृ 215-234. 36. अष्टसहस्री-प. 95. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302