Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 221
________________ 212 Traverses on less trodden path... सूक्ष्मेक्षिकयानया समीक्षया इदमत्र सुस्पष्टं भवति यत् नैयायिकानां प्राबल्यकाला. दारभ्य निरीश्वरवादिता एव नास्तिकतेति व्यवहार समारब्धः तत्पूर्व उपनिषदादि काले आस्तिकतया वा नास्तिकतया साकं ईश्वरास्तित्वस्वीकारस्य अस्वीकारस्य च न कोऽपि संबन्धः आसीदिति । संप्रति आस्तिकनास्तिकविषयमधिकृत्य प्रदर्शितान् विचारान् एकैशः संपरीक्ष्य जेनदर्शनं यथातथ्येन नास्तिकपदव्यपदेशा) भवितुमर्हति न वेति निर्णेतव्यम् । ___ दर्शनसाहित्यस्यैतिह्यावलोकनेन षद प्रमाणानि नास्तिकतायाः निर्धारणे समुपलभ्यन्तेत्यस्माभिः प्रतिपादितं खलु । तानि च आत्मास्तित्वनिरोकरणं, जडतत्वाच्चैतन्यं समुत्पद्यतेति प्रतिपादनं, परलोकपापपुण्यमोक्षादीनां प्रत्याख्यानं, मोहाभिभूतत्वं, वेदप्रामाण्याग्रहणं, निरीश्वरवादित्वं चेति । प्रमाणान्येतानि प्रदर्शितानि सम्यक् स्मृतिपथमानीय, सर्वविधरीत्या विचार्यमाणे भारतीयदर्शनेषु चार्वाकदर्शनमेवैकं नास्तिकशब्दव्यपदेशाहः भवतीति दर्शनधुरीणैः स्वीकर्तव्यमेव भवति । नास्तिक शब्दलक्षण मनसि निधाय निष्पक्षपातिना च मनसा चार्वाकजैनदर्शनयोः प्रतिपादितसिद्धान्तानां तुलनया जैनमतस्य परमास्तिकता प्रस्फुदी भवति । दर्शनशास्रपारावारीणानां मतानुरोधेन जैनदर्शनं नास्तिकदर्शनमिति कथनं युक्ति संगतं न भवतीति सप्रमाणं प्रदर्शयितुं नास्तिकस्य चार्वाकस्याभिमतसिद्धान्तप्रतिपादनं समापद्यते, तद्विशदीकरणमप्रासङ्गिकं न भवेदत्र । चार्वाकास्तु देहातिरिक्तात्मास्तित्वं, परलोकास्तित्वं, मोक्षावस्थाश्च नाङ्गीकुर्वन्ति, स्वेच्छाचरणं कामाचरणं वा मुक्तकण्ठेनानुमन्यन्तेति सुविदितमेव सर्वदर्शनशास्त्रविदाम् । __ आत्मास्तित्वविषये चार्वाकाः एवं सङ्गिरन्ते-प्रत्यक्षदृष्टिगोचरीभूतदेहातिरिक्तस्या. न्यस्य कस्यापि अनुगम्यविशिष्टात्मनः अस्तित्वं नास्ति । चैतन्यविशिष्ट देह एवात्मा । कायाकारेण परिणतपृथिव्यादिभूतचतुष्टयमेव चेतनः, एकैकभूतस्य चैतन्याभिव्यञ्जकाभावेऽपि समुदितस्य व्यञ्जकत्वं यथा मदशक्तिः एकैकपूगीफलादिना न भवति चूर्णपर्णफलेभ्यश्च भवति तद्वत् ।। B पश्यामि श्रुणोमीत्यादि प्रतीत्या मरणपर्यन्तं यावन्ति इन्द्रियाणि तिष्ठन्ति तान्येव आत्मा ।11 प्राणापानाद्यधिष्ठानाद् कायादेव युक्तं ज्ञानं जायते न तु ज्ञानाधारभूतो शरीराद्भिन्नोऽस्त्यात्मा ।' अहं. स्थूलः, कृशोऽस्मीति सामानाधिकरण्यतः, देहस्थौल्यादि योगाच्च,18 'चेतनविशिष्टदेह एव आत्मा' इति निगदन्ति । 14. बार्हस्पत्यसूत्र-4 15. जडभूतविकारेषु चैतन्यं यत्त दृश्यते । तांबूलपूगचूर्णानां योगाद्राग इवोत्थितः।। सर्वासिद्धान्तसंग्रह-7. 16. बार्हस्पत्यसूत्र-36 17. कायादेव ततो ज्ञान प्राणापानाधिष्ठिनाद् युक्तं जायते-बार्हस्पत्यसूत्र-22 18. सर्वदर्शनसंग्रह-चावकिमत-1/63-64. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302