Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सर ३] नियतपौर्वापर्यकस्थले परप्राबल्यानुग्राहकापच्छेदन्यायस्याप्रवृत्तिकथनम् 261
सर्वार्थसिद्धिः नयः, नियमे तूपक्रमनयात् परानुत्पत्तिरेवेति नीतिविदः । इह च त्वयैव प्रसञ्जकप्रतिषेधकयोः पौर्वापर्यनियमः स्थापितः ; अतः परस्यैव दौर्बल्यं प्रत्येतव्यमिति । अनुष्ठाने त्वस्य न्यायस्यानन्यथाभावमभिप्रेत्य
आनन्ददायिनी परेण पूर्वस्य बाधः स्यात् । तथा च विकल्पसिद्धान्तो निर्मूलः स्यात् । ननु तत्र ग्रहणाग्रहणवद्विकल्पः किमर्थं नाश्रित इति चेन्न । विकल्पस्याष्टदोषदुष्टत्वेन गत्यभावविषयत्वादिति भावः । नन्वेकवाक्य एवोपक्रमनयो वेदोपक्रमाधिकरणे दर्शितः, कथमत्रेत्यत्राहइह चेति । प्रसञ्जकप्रतिषेधयोरेकवाक्यत्वे नन्वयादिति भावः । उपक्रमत्वं च पूर्वभावित्वमिति बोध्यम् । ननु नियतिमतीत्यनेनैवोक्तार्थाभिधाने पौनरुक्तयमित्यत्राह-अनुष्ठाने विति । शास्त्रनैयत्यं नियतिपदेनोच्यते । अनुष्ठाननैयत्यं सदाशब्देन । तथा च वाक्यस्य नियतपौर्वापर्ये अनुष्ठानस्यैकरूप्ये चोपक्रमन्याय इत्यर्थः । न चैवं ग्रहणाग्रहणवाक्येऽप्युपक्रमन्यायस्स्यादिति वाच्यम् । तत्रानुष्ठाननैयत्याभावात् । न चात्राप्यनुष्ठानाभावात् तदैकरूप्यं 4 नास्तीति वाच्यम् । तद्बोधस्यैवानुष्ठानशब्देन विवक्षितत्वात् तदुपासनानुष्ठानस्य वा संभवा. चति भावः । तथा चास्य न्यायस्य प्रवृत्तिहेतुभूतमनुष्ठानेऽनन्यथाभावमभि प्रेत्येति वाक्यायः । केचित्तु-अनुष्ठानेऽस्य न्यायस्यान्यथाभावमभिप्रेत्येति पठन्ति। तदाऽयमर्थः---अस्यापच्छेदन्यायस्यानुष्ठानविषयतयाऽन्यथासिद्धतया प्रमाणविषयत्वाभावादित्यर्थः । ननूपक्रमोपसंहारयोस्तुल्यत्वेऽयं न्यायो भवेत् । निषेधे तु निषेध्यानुवादस्य निषेधार्थत्वान्न तुल्यत्वम् । ___ 1 ननु ग्रहणा-ग. किमर्थ तत्र नाश्रित-ग. नानन्वया-क. न स्यादिति-ग. ठानेनान्यथा-ग. प्रामाण्यवि-ग.

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426