Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 395
________________ नायक ह 301 सव्याख्यसवार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः त्रिव्यूहः कापि देवः क्वचिदपि हि चतुर्व्यह उक्तस्तदेवं व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु । ___ तनाये व्यूहभेदे त्रियुगगुणतया चिन्ननीये परस्मा द्युक्ताभेदाविवक्षा तदनुपगमने तत्त्वसंख्यादिबाधः ॥ ७१ ॥ सर्वार्थसिद्धिः मानमेयमलिम्लुचाम्त्वाहुः-त्रिव्यूहचतुव्यूहवाक्ययोर्विरोधात् सर्वमेतदुपासनार्थं कल्पनामात्रसिद्धमिति । तदनुब्रूते-त्रिव्यूह इति । प्रतिवदति-तन्नेति। विरोधं शमयति-आद्य इति । वस्तुतश्चतुव्यूहत्वेऽप्याद्यव्यूहस्य षड्गुणतयाऽनुसन्धेयत्वात् परस्मादभेदं विवक्षित्वा त्रिव्यूहत्वोक्तिः प्रवृत्तति न मिथो बाधश्शनीय इति हृदयम् । उक्तप्रकारानभ्युपगमेऽतिप्रसङ्गमाह-तदनुपगमन इति । एवमिह प्रसङ्गः -यदि न्यूनाधिकनिर्देशमात्राद्विरोधः, तदा कचिदप्यनुक्तमन्यतो ग्राह्य न स्यात् । ततश्च विद्यैक्ये गुणोपसंहारस्त्यज्येत ; तथा आनन्ददायिनी आक्षेपसङ्गति दर्शयति-मानमेयेति । उपासनार्थमिति । तथासति नार्थविरोधोऽर्थस्यैकरूप्यादिति भावः । विद्युक्य इत्युपलक्षणम् | कर्मकाण्डेऽपि शाखाभेदेनाम्नातानामुपसंहारो न स्यादिति द्रष्टव्यम् ।

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426