Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 397
________________ 306 सव्याख्यसर्वार्थसिद्धिसहिततत्त्व मुक्ताकलापे [नायक तत्त्वमुक्ताकलापः वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था। ___ मैवं कालादिभेदात् प्रशमितविहतौ कल्पितत्वं न कल्प्यं नो चेद् ब्रह्माद्युदन्तेष्वपि विषमकथाभेदवैयाकुली स्थात् ॥ ७२ ॥ सर्वार्थसिद्धिः वैषम्यं च। अतो मन्त्राक्षरेषु बीजतत्कार्यव्यपदेशवत् सितरक्तादिव्यपदेशवञ्च भावनार्थं दृष्टयुपदेशमात्रमेतदिति भावः । एतन्निषेधति -मैवमिति । काल्पनिकत्वशङ्कामूलं विरोधं परिहरति-कालादिभेदादिति । उक्तानभ्युपगमेऽतिप्रसङ्गमाह-नो चेदिति । सन्ति हि चतुर्मुखस्य सप्त जन्मानि ; रुद्रस्य ब्रह्मपुत्रत्वं ब्रह्मानुजत्वं च । चन्द्रादीनामपि कारणभेदाः कथ्यन्ते । न चैतेषु कल्पादिभेदप्रशमित आनन्ददायिनी मूर्यादयः। अत इति । वर्णानां परस्परोपादानोपादेयभावशुक्लगुणाद्यभावेऽपि अं बीजं शुक्लो वर्ण इत्यादि मन्त्रशास्त्रे व्यपदिश्यत इति भावः । काल्पनिकत्वेऽपि यथा वह्वयक्तिभेदेन नानाकारणकत्वम् , तथा कालभेदेन भिन्नानां मन्त्रमूर्तीनां सर्वमुपपन्नमिति भावः । न केवलं पञ्चरात्रायुक्त एव एवं परिहारः, किं तु श्रुतिस्मृत्याद्युक्तोऽपीत्याहसन्ति हीति । चन्द्रादीनामिति । अत्रिनेत्रसमुद्रमधुरिपुमानसादि 1 भावनार्थदृष्टि-पा. - इन्द्रादी-पा.

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426