________________
306
सव्याख्यसर्वार्थसिद्धिसहिततत्त्व मुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था। ___ मैवं कालादिभेदात् प्रशमितविहतौ कल्पितत्वं न कल्प्यं
नो चेद् ब्रह्माद्युदन्तेष्वपि विषमकथाभेदवैयाकुली स्थात् ॥ ७२ ॥
सर्वार्थसिद्धिः वैषम्यं च। अतो मन्त्राक्षरेषु बीजतत्कार्यव्यपदेशवत् सितरक्तादिव्यपदेशवञ्च भावनार्थं दृष्टयुपदेशमात्रमेतदिति भावः । एतन्निषेधति -मैवमिति । काल्पनिकत्वशङ्कामूलं विरोधं परिहरति-कालादिभेदादिति । उक्तानभ्युपगमेऽतिप्रसङ्गमाह-नो चेदिति । सन्ति हि चतुर्मुखस्य सप्त जन्मानि ; रुद्रस्य ब्रह्मपुत्रत्वं ब्रह्मानुजत्वं च । चन्द्रादीनामपि कारणभेदाः कथ्यन्ते । न चैतेषु कल्पादिभेदप्रशमित
आनन्ददायिनी मूर्यादयः। अत इति । वर्णानां परस्परोपादानोपादेयभावशुक्लगुणाद्यभावेऽपि अं बीजं शुक्लो वर्ण इत्यादि मन्त्रशास्त्रे व्यपदिश्यत इति भावः । काल्पनिकत्वेऽपि यथा वह्वयक्तिभेदेन नानाकारणकत्वम् , तथा कालभेदेन भिन्नानां मन्त्रमूर्तीनां सर्वमुपपन्नमिति भावः । न केवलं पञ्चरात्रायुक्त एव एवं परिहारः, किं तु श्रुतिस्मृत्याद्युक्तोऽपीत्याहसन्ति हीति । चन्द्रादीनामिति । अत्रिनेत्रसमुद्रमधुरिपुमानसादि
1 भावनार्थदृष्टि-पा. - इन्द्रादी-पा.