________________
सरः ३] मूर्तिषु कारणभेदाद्युक्ते कल्पभेदाछुपपत्त्या तासामकाल्पनिकत्वसमर्थनम् 307
तत्त्वमुक्ताकलापः ईशस्य व्यष्टिभेदानभिदधति मनोवाङ्मयादीन् यदन्ये
सर्वार्थसिद्धिः विरोधेषु काल्पनिकत्वशङ्कावकाशः, तथाऽत्रापि स्यात् ; अन्यथा तत्रापि विपरीतापत्तिरिति ।। ७२ ॥
इति प्रादुर्भावादिप्रक्रियान्तरोपपत्तिः.
इह केचिदीश्वरस्वरूपेऽपि भोक्तभोग्यन्यायेन समष्टिव्याष्टिभेद वर्णयन्ति, वदन्ति च मनोमयप्राणमयबामयाख्यं व्यूहत्रयम् ; तदनुभाषते-ईशस्येति । ईदृशोऽयं भेदः किं भोग्यवत्परिणामतः. उत
आनन्ददायिनी प्रभवत्वमित्यर्थः । आदिशब्देन वसिष्ठादय उक्ताः । उदन्तः-- वृत्तान्तः । विषमकथाभेदः--नानाविधसृष्टिवादविशेषः ।। ७२ ॥
प्रादुर्भावादिप्रक्रियान्तरोपपत्तिः.
प्रसङ्गसङ्गत्या ब्रह्मदत्तमतं दूषयति---इहेति । स एवमाहसर्वशक्तिस्वयंप्रकाशसन्मात्रं ब्रह्म यदा सर्वतत्त्वसमष्टीभूतं भवति तदेश्वरो जीवः प्रकृतिरिति त्रेधा नित्यविभागवद्भवति । तत्रानुवृत्तं सन्मात्र ततो विलक्षणं फेनतरङ्गबुढ्दापेक्षया निस्तरङ्गसमुद्रवत्, तत्रेश्वरः सदा ज्ञानानन्दैश्वर्याविर्भावहेतुब्रह्मशक्तिसंपन्नस्तदंशत्वात् , एवमीश्वरोऽपि मनोमयो वाङ्मयः प्राणमय इति विभागवान् , एवं भिन्न ईश्वर आदित्याग्निचन्द्ररूपेण मनोवाक्प्राणानधितिष्ठतीति । भोग्यवदिति ।
20*