Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 399
________________ 308 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे निायक तत्त्वमुक्ताकलापः तत्र त्रेधा यदीष्टा विकृतिरविषया निर्विकारागमाः स्युः । नित्यत्रित्वे तु नैकेश्वरनियमगतिर्धान्तिसिद्धे विभागे सर्वार्थसिद्धिः भोक्तवत्स्वभावतः, अथ प्रतिबिम्बितचन्द्रादेवि भ्रान्तित इति विकल्प मन्वानः प्रथमे निर्विकारश्रुतिविरोधमाह-तत्रेति । त्रेधेत्यनन्तव्यष्टयन्तराणामुपलक्षणम् । सर्वात्मनो ब्रह्मणस्सविकारत्वादीश्वरांशे हि तैर्निर्विकारत्वश्रुतिर्निवेशिता ; तत्राप्यनवकाशत्वं तस्या. प्रसक्तम् । द्वितीय दूषयति-नित्यत्रित्व इति । “एको देवः सर्वभूतेषु गूढः " " एकश्शास्ता न द्वितीयोऽस्ति शास्ता" इत्यादिभिर्विरोधः स्यादिति भावः। तृतीयेऽनिष्टमाह-भ्रान्तीति । आनन्ददायिनी अचेतनप्रकृतेर्महदादिपरिणामवदित्यर्थः । भोक्तवदिति । चेतनानामिव स्वत एव भेदः । त्रेधेत्यनन्तव्यष्टयन्तराणामिति । विश्वतैजसप्राज्ञादिभेदानामित्यर्थः । नन्वीश्वरविषयत्वाभावेऽपि श्रुतेर्ब्रह्मण्येवेश्वरादिविभागस्स्वाभाविको न स्यात् , मायाकल्पितविभागेनैव सर्वोपपत्तेः । तथा च भोक्तभोग्येश्वरभेदेन विभागो नित्यसिद्ध इत्यभ्युपगमो व्यर्थ इति 1 तस्यापि प्रस-पा.

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426