Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३] उलेखभेदतदभावपक्षयोई योरपि दोपनिस्तारोक्तया सर्वज्ञतासमर्थनम्
317
सर्वार्थसिद्धिः प्रध्वंसवतोऽतीतत्वम् । तच्च किंचित्कादाचित्कम् । न हि नित्यापेक्षया किंचिद्भविष्यद्भूतं वा । एवं सर्वप्रकारं वस्तु सर्वज्ञबुद्धया यथावस्थितरूपण सर्वदैवोल्लिख्यत इति करणनैरपेक्ष्य विपर्यासविरहश्च सिध्यतीति ॥
य एव स्यादसर्वज्ञस्सर्वज्ञं न स बुध्यते । इति तद्बोधबाधार्थी तन्निषेधेऽपि न क्षमः ॥ ७६ ॥
इति सार्वज्ञयानुपपत्तिनिरास:.
आनन्ददायिनी वर्तमानध्वसप्रतियोगित्वादेरुल्लेखसम्भवात् । तत्काले यथावस्थितसर्ववस्तुविषयकज्ञानवत्त्वमेव हि सर्वज्ञत्वं, अन्यथा भ्रान्तत्वप्रसङ्गात् । न च वर्तमानकाले भविष्यत्त्वस्याज्ञानान्नयूनता ; तदाऽप्यततित्वेन भविष्यत्वस्य पूर्व भविष्यदासीदित्यनुभवेन दोषाभावादिति भावः । तथा च तत्तद्वस्त्वपेक्षया पूर्वत्वसमकालत्वोत्तरत्वात्मकानां सर्वदा तत्तदपेक्ष्यैकरूप्यात् बुद्धिरप्येकरूपेति न कदाचिदनुपपत्तिरिति भावः । किं वेश्वरस्य सार्वज्ञयनिपेधं जानाति न वा । पूर्वत्र प्रतियोगिज्ञानाभावात् निषेधो नोपपद्यते, उत्तरत्र तस्य प्रमाणतोबाघे बाघासंभव इत्यभिप्रायेणाह -- य एवेति । निषेध्या असर्वज्ञःप्रमाणवृत्तान्ताद्यनभिज्ञः, सर्वज्ञं किं न बुध्यते, उत नेति विकल्पे सति तत्सार्वज्ञयनिषेधानिषेधे क्षमोऽपि नेत्यर्थः ॥ ७६ ॥
सार्वज्ञयानुपपत्तिनिरासः.
1 अत्र ‘निषेद्धा' इति पाठः स्यात्.

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426