Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३]
ईश्वरस्वरूपादिनिरूपणेन प्रेक्षावतां प्रयोजनप्रपञ्चनम्
327
तत्त्वमुक्ताकलापः तचैतस्य प्रसादादिति हि निजगदुर्धर्ममर्मज्ञचित्ताः ॥ ७९ ॥
त्रय्यन्तोदन्तचिन्तासहचरणसहैरेपिपरस्मिन् परस्मिन्
सर्वार्थसिद्धिः यद्वा-क्रियादिस्वरूपं स्वयमचेतनत्वात प्रसादवन्निप्प्रसादं फलप्रदमिति । उपलक्षणमेतत् ; निष्कोपमित्यपि ग्राह्यम् । एतस्यसर्वकर्तुम्सर्वसुहृद इति भावः । धर्ममर्मज्ञचित्ता इत्यत्र धर्माणां कारणभूत कार्यभूतं च भगवत्कटाक्षण स्वपीडायां धर्मपीडनात धर्ममर्मत्वेनोपचरितम् । धर्मस्य यथा परप्रसाद कारणम्, एवमधर्मस्यापि तत्कोपः कारणम् । श्रूयते हि तस्य साध्वसाधुकर्मकारयितृत्वम्; स्मयते च बहुशः ॥ ७९ ॥
इतीश्वरस्य साध्यप्रसादादिमत्त्वम् .
एव सकलफलप्रदस्य सत्त्वस्थानां स्वयंफलभूतस्य च परस्य प्रतिपादनेन श्रोतृणामनुनिष्पन्नं फलविशेषमाह-त्रय्यन्तेति ।
आनन्ददायिनी पाण्डित्यपूर्तिरहितः । ईषदसमाप्तौ रूपप्प्रत्ययः। सर्वप्रसिद्धो मार्ग इत्यर्थः । आराध्यप्रसादमङ्गीकृत्य तदपेक्षत्वमुच्यत इवेति ? भाति । तद्वयावृत्त्यर्थमाह-यद्वेति । कटाक्षणं कटाक्षः, प्रीतिरिति यावत् । श्रूयते हीति । एष ह्येव' इत्यादिनेति शेषः ॥ ७९ ॥
ईश्वरस्य साध्यप्रसादादिमत्त्वम्.
अस्य सरम्य प्रयोजनं कथयन्निगमयतीत्याह--एवमित्यादिना। मूलं-सहचरणसहैः सहायभूतैः। प्रभृतिशब्देन त्वरादि गृह्यन ।

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426