Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
328
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
। नायक
तत्त्वमुक्ताकलापः भक्तिश्रद्धास्तिकत्वप्रभृतिगुणसिरावेधिभि -
स्तर्कशस्त्रैः।
स्वार्थत्वस्वाश्रयत्वस्व वशयतनताद्यूहवर्गो - पवर्ग
श्छिद्येताच्छेद्यपूर्वोत्तरसर युगलस्यूततत्त्व - स्थितीनाम् ॥ ८० ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु तत्त्वमुक्ताकलापे
तृतीयो नायकसरः.
सर्वार्थसिद्धिः पूर्वोत्तरयोस्सरयुगलयोः समर्थितानां चेतनाचेतनतत्त्वस्थितीनां यथासंभवं स्वशेषत्वं स्वाधारत्वं स्वाधीनव्यापारत्वं चेतनान्तरशेषत्वादिकं च विवेकशून्या मन्यन्ते । सोऽयमुपद्रवस्सर्वशेषिणस्सर्वाधारस्य सर्वनियन्तुरीश्वरस्य प्रतिष्ठापकैः प्रमाणानुग्राहकै प्रतिक्षिप्यतेति ॥ ८० ॥
इति ईश्वरनिरूपणप्रयोजनविशेषः. इति कविताकिमिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वे ट्वट नाथस्य श्रीमठेदान्नाचार्यस्य
कृतिषु तत्त्वमुक्ताकलापव्याख्याया सर्वार्थसिद्धी
तृतीयो नायकसरः.
आनन्ददायिनी उपवर्गः-उपद्रवः । क्वचिदुपसर्ग इति पाठः । उत्पत्तिरित्यर्थः । पूर्वोत्तरसरयुगले स्यूतेषु प्रतिपाद्येषु तत्त्वेषु अच्छेद्या दृढा स्थितिनिश्चयो येषामित्यर्थः ।। ८० ॥

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426