Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सर: ३] विना विरुद्धघटनं भगवतरस्वेतराशक्याव्याहनघटकत्वेनैव सर्वशक्तत्वम्
319)
तत्त्वमुक्ताकलापः तस्मादीशो विरुद्धद्वितयमघटयन् सर्वशक्तिः कथं स्या
न्मैवं व्याघातशून्येष्वनितरसुशकेष्वस्य ताहक्त्वसिद्धेः ॥ ७७॥
सर्वार्थसिद्धिः सिद्धिमुपजीव्य चोदयति-तस्मादिति । शक्तिर्हि शक्यविषया । विरुद्धं तु घटयितुं न शक्यम् । अतोऽशक्यसद्भावात् कथं सर्वशक्तिः स्यादित्याक्षेपः । अविवक्षितदूषणमिदमित्यभिप्रायेण प्रत्याह-मैवमिति । अभिप्रेत विवृणोति-व्याघातेति। नहि व्याहतमीश्वरो घटयतीति तस्य सर्वशक्तित्वं ब्रूमः ; किंतु यत् कार्य तत्सर्वं करोति, ततश्चान्यैरप्य शक्यं करोतीति सिध्येत् । ईदृशमस्य सर्वशक्तित्वमाग. माभिप्रेतम् । तच्च विरोधाभावाद्युज्यत एवेति ॥ ७७ ।।
इति सर्वशक्तित्वस्थापनम्.
आनन्ददायिनी विरुद्धं त्विति । नीलिमारुणिम्नोर्युगपदकावच्छेदेन सामानाधिकरण्यमशक्यमित्यर्थः । अविवक्षितेति ॥ ७७ ॥
सर्वशक्तित्वस्थापनम्.
1 शक्यम् । ततो-पा.
क्यमपि करो-पा.
अत्रैतद्व्याख्याभागो लुप्त इति भाति.

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426