Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
मर ] प्रतिबन्दिप्रयोगसभवाच्छ्रत्यादिवलाञ्चेश्वरस्येच्छावत्त्वस्यापि समर्थनम् 323
__ सर्वार्थसिद्धिः व्याप्तिद्ग्रहा ; ईश्वरज्ञा'न त्वद्याप्यसिद्धम् । यदि च यथादृष्टप्रकारानादरेण बुद्धियत्नयोहेतुनिरपेक्षत्वं कल्प्यते, तथा यत्नस्य बुद्धिनिरपेक्षविषयत्वमदृष्टमभिमन्यताम् ; अविशेषाल्लाघवाच्च । एवं बुद्धिमात्रमवलम्ब्य प्रयत्नपरित्यागप्रतिबन्दिरपि प्रयोक्तव्या । ईश्वर इच्छात्यन्ताभाववान् कर्मवश्यव्यतिरिक्तत्वात् घटादिवत्, इत्यादिषु च ताशप्रयोगः प्रतिप्रयोक्तव्यः। धर्मिसिद्धयसिद्धयादिवि कल्पेन दूषणजात च दुम्तरमिति
आनन्ददायिनी सामग्रयधीनत्वान्नियतविषयत्वस्येत्यर्थः । द्वितीयं दूषयति--ईश्वरज्ञानं विति । हेतुनिरपेक्षत्वं नित्यत्वमित्यर्थः । एवमिति । पूर्वं यत्नमात्रस्य सिद्धिरुक्ता, इदानीं ज्ञानमात्रमेवास्तु, प्रयत्नस्तु न कल्प्यो लाघवादिति प्रतिबन्दिरिति भावः । ननु कार्य प्रति यत्नस्य साक्षाद्धेतुत्वात्तत्सिद्धिरस्तु. ज्ञानस्य यत्नद्वारकत्वात् कथमेव प्रतिबन्दिरिति चेत् । न युक्ता द्वारद्वरिभावे, स एव तु नाम्ति, उभयोर्नित्यत्वात् , नापि कार्यत्वमपि कृतिजन्यत्वमिति कृतिसापेक्षम् , अन्योन्याश्रयेश कार्यत्वहेतोरसाधकत्वप्रसङ्गादिति युक्ता प्रतिबन्दिरिति ध्येयम् । इच्छात्यन्ताभाववानिति । समवायसम्बन्धनेच्छात्वावच्छिन्नप्रतियोगिकात्यन्ताभाववानित्यर्थः । प्रादेशिकत्वे नियामकाभावात् पक्षतावच्छेदकावच्छेदेन सिद्धिरिति भावः । तादृश इति । ईश्वरो ज्ञानप्रयत्नात्यन्ताभावान् कर्मवश्यान्यत्वात् घटवदित्यपि प्रयोग इत्यर्थः । किं च ईश्वरं सिद्धं पक्षीकृत्य साध्यते उतासिद्धं, सिद्धं चेत् , चिकीर्षावत्त्वेनापि सिद्धम् । असिद्धं चेत् , आश्रयासिद्धिरिति दूषयतिधर्मिसिद्धीति । आदिशब्देन व्याप्त्यादिसिद्धिर्विवक्षिता । केचित्तु
__न चाद्या-पा. 'रपि योक्त-पा. SARVARTHA VOL IV.
कल्पभेदेन दू-पा.
22

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426