Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 413
________________ सव्याख्या सर्वार्थमितिसहिततत्त्व मुक्ताफळापे सर्वार्थसिद्धि. नियतविषयत्वे संभवति सर्वविपयज्ञानेन प्रयत्नम्य विषयनियमकल्पनं बालिशकृत्यम् । विषयत्वमात्रं चात्र न यावद्धीविषयत्वम्, नित्यानामपि निष्पाद्यत्वप्रसङ्गात् ; अशक्यविषयप्रयत्नवत्तया वा डिम्भादिकल्प ईश्वर : स्यात् । अथ स्वासाधारणधविषयेणैव विषयवत्त्वं प्रयत्नस्येति मन्येत तदपि न : धिय इव प्रयत्नस्यापि नियामकनिरपेक्षविषयत्वोपपत्ते ; अन्यथा कल्पनागौरवात् । स्वतम्सविषयत्वे ज्ञानत्वप्रमङ्ग इति चेन्न ; धियोऽपि तन्नियामकत्वाभावात् । नच स्वाधारधीविषयम्य सर्वस्य प्रयत्नविषयत्वमिति मन्यसे सारूप्येऽप्यवान्तरलक्षणन भदोपपत्तेः ; अन्यथाऽतिप्रसङ्गात् । किंच सामग्रनियतविषये निरीश्वरज्ञाने ; 322 [नायक आनन्ददायिनी , नापेक्षितमिति भावः । किंचिदर्थमभ्युपगतमपि ज्ञान तन्नियामकत्वाभावाव्यर्थं स्यादित्याह - सर्वविषयेति । ननु प्रयत्नस्य यत्किंचिद्विषयत्वं प्रति ज्ञानस्य सर्वविषयस्य नियामकत्व मास्तु, विषयत्वमात्रे तदस्त्वित्यत्राह - विषयत्वमात्रमिति । एकविषयत्वासम्भवात् मात्रचः कायैपरत्वमिति, नित्यानामपि निष्पाद्यत्वरूपं कार्यत्व स्यादित्यर्थः । यावद्धीविषयमिति । विस्वयमनतिक्रमणे व्यावधिभावः । धीविषयव्यापनं विषयत्वमात्रमित्यर्थः । अन्यथेति । ज्ञानकल्पन गुर्विति भावः । तदेवोपपादयति न चेति । ज्ञानस्य सर्वविषयत्वं प्रयत्नस्य कार्यमात्रविषयत्वमित्यभ्युपगमादिति भावः । स्वतम्सविषयत्वेाप ज्ञानवैलक्षण्यमाहसारूप्येऽपीति । अन्यथेति । यदि सविषयत्वेऽप्यवान्तरवैलक्षण्यमादाय भेदो न स्यात्तदा ज्ञानाधीन सविषयत्वविशेषाच्चि कषिप्रयत्न योवैलक्षण्यं न स्यादिति भावः । किं च ज्ञानस्य स्वतोविषयत्व किं जीवज्ञाने ग्राह्यमुतेश्वरज्ञान इति विकल्पे आद्यं दूषयति - किं च सामग्रीति । 'अत्र 'अनतिक्रमणेऽयोभाव' इति जववारणेऽव्ययीभाव 1 येऽनीश्व - पा. इति वा पाठः स्यात्

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426