Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 412
________________ ज्ञानयत्नवतो जगत्स्रष्टुर्न चिकीषेति मनस्यानुवाद, तत्खण्डनारम्भश्व सर्वार्थसिद्धिः नैयायिका निर्धारयन्ति, वैशेषिकास्त्वागममप्यनुमानकृित्य तदेकवद्यमीश्वर तन्त्रयन्ति । अनुमानं च ज्ञानयत्नवच्चिकीर्षामपि समर्थयितुं शक्नोति । तत्र यदि जीवनपूर्व कप्रयत्न्यायेन चिकीर्षीनैरपेक्ष्य सगुह्येत तद्वदेव ज्ञाननैरपेक्ष्यं कि न स्यात् । न हि ज्ञानमपि प्रयत्नमनपेक्ष्य कचित् कार्य जनयति ; प्रयत्नस्तु ज्ञानमनपेक्ष्यापीति दृष्टमेव । अन एव चिकीर्षा प्रयत्नोत्पत्त्यर्थमन्यत्रापेक्ष्यते, इह तु नित्यप्रयत्ने कि तयेत्यपि मन्दम् । चिकीर्षोत्पत्त्यर्थमन्यत्र ज्ञानमपेक्ष्यते, इह तु प्रयत्नस्य नित्यत्वेन चिकीर्षानैरपेक्ष्यात् किं ज्ञानेनेत्यपि सुवचत्वात् । प्रयत्नस्य स्वतो विषयनियमाभावात् ज्ञानविषयेण सविषयत्वं वक्तव्यामीति चेन्न, उक्तातरत्वात् । न हि जीवनपूर्वकप्रयत्नस्य स्वाधारज्ञाननियतविषयत्वम् ; नच सर्वकार्यविषयस्य ईश्वरप्रयत्नस्य विषय नियामकापेक्षा ; सत्यां च तस्यां सहकारिशक्तिभूतजीवादृष्टविशेषत एव प्रयत्नस्य आनन्ददायिनी पर. ३] 321 - वैशेषिकास्त्विति । प्रमाणद्वयवादित्वादिति भावः । एतानि पदानि स्मारितपदार्थ संसर्गज्ञानपूर्वकाणि, आकाङ्क्षादिमत्पद कदम्बकत्वादित्यादिरूपेणानुमानकारणं बोध्यम् । तन्त्रयन्ति - साधयन्ति । ननु विनिगमनाविरहादुभयसिद्धिरन्यथा प्रयत्नम्यैवासिद्धिरस्त्वित्यत्राह न हि ज्ञानमपीति । अत एवेत्येतद्विवृणोति - - चिकीर्षेति । पुनर्ज्ञान - सिद्धिं शङ्कते प्रयत्नस्येति । ज्ञानस्यैव स्वतो विषयित्वं तदधीनमिच्छाप्रयत्नयोर्विषयित्वमिति ज्ञानाभावे प्रयत्नस्य विषयित्वं न स्यादिति भावः । स्वाधारेति । स्वस्य प्रयत्नस्याधारे विद्यमानं यज्ज्ञानं तेन नियतविषयमित्यर्थः । सत्यां च तस्यामिति । अपेक्षायां सत्यामपि ज्ञानं 1 2 कयल - पाक्ष्यमपि कि- पा. 3पि कचित्प्रयत्नमनपेक्ष्य कार्य - पा. ' नियमापेक्षा - पा. 21 SARVARTHA VOL. IV

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426