Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 411
________________ 320 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः संगृह्य झामयत्नौ कतिचन निखिलस्रष्टुरिच्छां तु नैच्छन् तस्यां द्वेषः क एषामनुमितिशरणानीकनासीरभाजाम् । सर्वार्थसिद्धिः स एवमस्तु सर्वज्ञस्सर्वशक्तिरीश्वरः ; तथाऽपि तस्य चिकीर्षा नाङ्गीकार्या । न हि कर्तुः कार्योत्पादकत्वमिच्छाप्रयुक्तम् ; यत्नाभावे कचिदपि ततस्तदसिद्धेः । इच्छाभावेऽपि प्रयत्नतः कार्यसिद्धिर्जीवनपूर्वकप्रयत्नकार्यनिश्वासादिनिष्पत्त्या संगृहीता। अतः कार्यलिङ्गेन उपदेशलिङ्गेन वा कर्तुर्ज्ञानयत्नवत्त्वमात्रमेवानुमेयम् ; किमजागलस्तनकल्पया चिकीर्षयेति काश्यपीयाः केचिदाचक्षते। तदिदमन्वाचष्टेसंगृह्येति । तुशब्दः प्रदर्शिनमनपेक्षितत्वं द्योतयति । अत्र प्रतिबन्दिमभिप्रेत्य प्रतिब्रूते--- तस्यामिति । अनुमानादागमाच्चेश्वरासीद्धं ___आनन्ददायिनी भगवतो यादृशमात्रेण सिद्धनैव चिकीर्षणम् । विषयित्वनिदान च तज्ज्ञानं चापि ते विभोः ।। इति ज्ञानयत्नवत्त्वमेवेश्वरस्य, न तु चिकीर्षेति वैशेषिकैकदेशी, तं दूषयितुमाहस एवमस्त्विति । प्रसङ्गस्सङ्गतिरिति भावः । इच्छाभावेऽपीति । यद्यपि भगवद्ज्ञानयत्नयोर्नित्यत्वादेव न चिकीर्षापेक्षा, तथाऽपि जन्येऽपि तन्नियमो नास्तीति, जन्यत्वेऽपि न चिकी क्षेिप इति भावः । काश्यपीयाः गौतमीयाः, वैशेषिकों इत्यन्ये । पि चि-पा. न वोप-पा. 'भगवद्यत्नमात्रेण' इति, 'ज्ञानप्रयत्नमात्रेण' इतिवाऽत्र पाठ. स्यात् . + ‘र्षापेक्षेति' इत्यत्र स्यात्.

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426