Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
318
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः नीलं किंचित्तदानीमरुणमिति न खल्विन्द्रजालादृतेऽद्धा
नो चेदेवं विरोधः क्वचिदपि न भवेत् कश्च जैनेऽपराधः।
सर्वार्थसिद्धिः ईश्वरस्य सर्वशक्तित्ववादमपह्रोतुमिच्छन् कश्चिद्विरुद्धोदाहरणं तावळ्यवस्थापयति--नीलमिति । अद्धा-सत्यम् । इत्यत्यिन्वयः । इन्द्रजालतिरोहितस्त्वेवमद्धेत्यभिमन्येतेति भावः । उक्तानभ्युपगमेऽतिप्रसङ्गमाह--नो चेदिति । क्वचिदपि-दष्यदूषणपूर्वपक्षासद्धान्तादावपीत्यर्थः । अतिप्रसङ्गान्तरमाह - कश्चति । विरुद्धसप्तभङ्गीपरिग्रहो हि जैन-यापराधः, विरोधोच्छदे सोऽपि न निगृह्यतेति भावः । विरोध
आनन्ददायिनी ननु सर्वशक्तित्ववादस्योपासनार्थत्वे तन्नयायेन सर्वस्याप्युपासनार्थत्वमिति चोद्यसंगतिमभिप्रेत्याह---ईश्वरस्येति । प्रासङ्गिकी सङ्गतिरित्यन्ये । नन्विन्द्रजालत्वेऽपि वस्तुनो विरोधः कथं परिहर्तुं शक्य इत्यत्राह-इन्द्रजालतिरोहितेति । प्रतीतिमात्रमेव न वस्तुनस्तथात्वमिति भावः । वस्तुत इन्द्रजालतिरोहितदृष्टेरपि न युगपत् प्रतीतिरपि तु क्रमेणेति ध्येयम् । सिद्धान्तादावपीत्यादिशब्देना'ज्ञत्वादिकं ग्राह्यम् । स्यादम्ति, स्यान्नास्ति, स्यादस्ति नास्ति च, स्यादस्ति चावक्तव्यं, स्यान्नास्तिचावक्तव्यं स्यादस्ति च नास्ति चावक्तव्यमित्युक्ता सप्तभङ्गी ।
अत्र 'शत्वशत्वादिकं ' इति पाठः रयात्. 2 अत्र ‘स्यादवक्तव्यम् ' इत्यधिकेन ग्रन्थेन भाव्यमिति भाति.

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426