SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 318 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः नीलं किंचित्तदानीमरुणमिति न खल्विन्द्रजालादृतेऽद्धा नो चेदेवं विरोधः क्वचिदपि न भवेत् कश्च जैनेऽपराधः। सर्वार्थसिद्धिः ईश्वरस्य सर्वशक्तित्ववादमपह्रोतुमिच्छन् कश्चिद्विरुद्धोदाहरणं तावळ्यवस्थापयति--नीलमिति । अद्धा-सत्यम् । इत्यत्यिन्वयः । इन्द्रजालतिरोहितस्त्वेवमद्धेत्यभिमन्येतेति भावः । उक्तानभ्युपगमेऽतिप्रसङ्गमाह--नो चेदिति । क्वचिदपि-दष्यदूषणपूर्वपक्षासद्धान्तादावपीत्यर्थः । अतिप्रसङ्गान्तरमाह - कश्चति । विरुद्धसप्तभङ्गीपरिग्रहो हि जैन-यापराधः, विरोधोच्छदे सोऽपि न निगृह्यतेति भावः । विरोध आनन्ददायिनी ननु सर्वशक्तित्ववादस्योपासनार्थत्वे तन्नयायेन सर्वस्याप्युपासनार्थत्वमिति चोद्यसंगतिमभिप्रेत्याह---ईश्वरस्येति । प्रासङ्गिकी सङ्गतिरित्यन्ये । नन्विन्द्रजालत्वेऽपि वस्तुनो विरोधः कथं परिहर्तुं शक्य इत्यत्राह-इन्द्रजालतिरोहितेति । प्रतीतिमात्रमेव न वस्तुनस्तथात्वमिति भावः । वस्तुत इन्द्रजालतिरोहितदृष्टेरपि न युगपत् प्रतीतिरपि तु क्रमेणेति ध्येयम् । सिद्धान्तादावपीत्यादिशब्देना'ज्ञत्वादिकं ग्राह्यम् । स्यादम्ति, स्यान्नास्ति, स्यादस्ति नास्ति च, स्यादस्ति चावक्तव्यं, स्यान्नास्तिचावक्तव्यं स्यादस्ति च नास्ति चावक्तव्यमित्युक्ता सप्तभङ्गी । अत्र 'शत्वशत्वादिकं ' इति पाठः रयात्. 2 अत्र ‘स्यादवक्तव्यम् ' इत्यधिकेन ग्रन्थेन भाव्यमिति भाति.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy