Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 407
________________ 316 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः मैवं पूर्वापरादिक्रमनियतसदोल्लेखसत्यत्व - सिद्धेः॥ ७६ ॥ सर्वार्थसिद्धिः तदभावे चादोष इत्यभिप्रायेण प्रतिषेधति ---मैवमिति । उल्लेखभेदपक्षे तावदेवं निस्तारः-नह्यत्र करणनिरपेक्षज्ञानवत्त्वविरोधः, चक्षुरादिनिरपेक्ष वेऽपि हेतुतस्साध्यप्रकाशोपपत्ते । हेतुश्चोल्लेखसन्ततावुत्तरोतरस्य पूर्वपूर्वः । तत्प्रवाहानादित्वाच्च न कदाचिन्निर्मलत्वम् । न चेदृशानवस्था दोष इति । एकरूपोल्लेखपक्षे त्वाह-पूर्वापरेति । अयं भावः - सर्व कार्य स्वकाले न हि नित्यासत् ; तच्च किंचिदपेक्ष्य पूर्व किंचि. दपेक्ष्योत्तरम् । तत एव त्रिप्रकार कार्य सर्वदैकबुद्धिसमारूढम् । न कदाचिदपि स्वकालवर्तिनः कालान्तरवर्तित्वेनोल्लेखः । भविष्यत्त्वादिकं चापेक्षिकम् । किंचिदपेक्षयोत्तरत्वमेव कस्यचित्तत्समकालप्रागभाववतस्तदपेक्षया भविष्यत्त्वम् । एवं किंचिदपेक्षया पूर्वत्वमेव तत्समकाल ____ आनन्ददायिनी स्यात् । क्रमबुद्धया तु न सर्वज्ञता। अतिप्रसङ्गादिति भावः । हेतुत इति । अत एव निर्हेतुकवादनिरास इति भावः । हेतुश्चेति। ननु भविष्यत्त्वरूपोल्लेखसन्ततः कथं वर्तमानत्वोल्लेखसन्ततिः स्यात् , तथा सति घटसन्तत्या पटत्वोल्लेखिसन्ततिप्रसङ्गात् , सजातीयसन्तत्यभावे चादिमसन्तत्ययोगाचेति चेत् न, पूर्वपूर्वावस्थैव तत्तद्विषयोपरक्तोत्तरतत्संततेहेतुः, तत्तद्विषयोपरागम्य नियामकत्वात् । अत एव न निर्मलत्वम् ! न चातीतादौ कथमिति वाच्यम् । तत्रापि तत्संबन्धिनिवृत्तेस्संनिहितत्वेन 1 त्वे हे-पा. सर्व हि का-पा. 'स्वकालेसत्तच्च-पा.

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426