Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 406
________________ सर ३] कालभेदाधीनोलखभदाय समान भगवत्स्सर्वज्ञतायामनुपपत्त्यापादनम् 315 तत्त्वमुक्ताकलापः यद्भावित्वेन बुद्धं भवति तदथ चातीतरूपं तदस्मि बुल्लेखो भिद्यते चेदकरणजमतेरैकरूप्यं प्रकुप्येत् । प्राचीनाल्लेख एव स्थितवति तु गते भाविबुद्धिभ्रमः स्यात् सर्वार्थसिद्धिः इति । 'तदभिप्रेत्याह---यद्भावित्वेनेति । भवति तत्--वर्तमानत्वावस्थां प्राप्नोति । अथ चातीतरूपं-वर्तमानत्वावस्थानन्तरमतीतावस्थं स्यादित्यर्थः । तत्-तस्मात् । अस्मिन्-अवस्थात्रयवति वस्तुनि। नित्यसर्वज्ञबुद्धेरागामित्वाद्युल्लेखो भिद्यते चेत्करणनिरपेक्षबुद्धरीश्वरस्य नित्यैकरूपसर्वदर्शनानुपपत्तिः स्यात्। प्राचीनोल्लेखे नित्यानुवृत्ते तु, वर्तमाने गते भविष्यत्त्वबुद्धिान्तिः स्यादिति परचोदनानुवादः । अत्रोल्लेखभेदे आनन्ददायिनी स्यात् । यदि वस्तु न तथा तर्हि भ्रान्तिता स्यात् । यदि च बुद्धिरेव न तादृशी तस्य भविष्यत्त्वदशायां विद्यमानस्य भविष्यत्त्वस्य ज्ञाने सर्वज्ञताभङ्गोऽनित्यज्ञानं च कारणानिरूपणान्नेत्यादिदोषाः प्रतिसन्धया इत्यर्थः। नित्यकरूपेति । वर्तमानतादशायमतीततादशायां च भविष्यत्त्वबुद्धयभावात् भविष्यत्त्वदशायां वर्तमानताबुद्ध्यभावात् सर्वज्ञता कदाऽपि न । तदेतद-पा. अथवाऽती-पा नासिद्धिः स्या-पा. परिचो-पा.

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426