Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 405
________________ 314 सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः अथ निखिलजगत्कारणतयाऽवधृतस्येश्वरस्य सर्वसृष्टयनुगुणेषु ज्ञानशक्तयादिष्वनुपपत्तिः परिहियते । तत्र ज्ञाने तावदयुक्तिरेवं शङ्कयते -नित्यसर्वज्ञ ईश्वरः भविष्यद्वस्तु भविष्यत्त्वेन पश्यति न वा ? पूर्वत्र तस्यैव वस्तुनो भवदवस्थायां भूतावस्थायां च किं स एवोल्लेखस्तदन्यो वा ? आये भवतो भूतस्य च भविष्यत्त्वेनोल्लेखाभान्तिरेव स्यात् ; द्वितीये 'पश्यत्यचक्षुः' इत्यादिना करणनिरपेक्षज्ञानवत्त्वेन कथितस्य कार्यज्ञानासंभवात् प्रतिक्षणं भिदुरानन्तोल्लेखसन्ततिपरिग्रहो निर्मूलः स्यात् । भविष्यतां भविष्यत्त्वेनादर्शनं तु तेषामदर्शनत एव वा, स्वस्वरूपमात्रदर्शनेन वा, वर्तमानत्वभूतत्वदर्शनेन वा स्यात् ? आये किंचिज्ज्ञत्वप्रसङ्गः। द्वितीयेऽपि प्रकारतस्स एव । तृतीये तु भ्रान्तत्वं दुस्तरम् । एवं वर्तमानेऽतीते च वर्तमानत्वादिबुद्धिरस्ति वा न वा? सा च निवृत्तिमती नित्या वा ? इत्यादिविकल्पेन प्रसक्ता दोषाः प्रतिसन्धेया आनन्ददायिनी अथ ज्ञानादीनामनुपपत्त्या मिथ्यात्वे 'यः सर्वज्ञः' इत्यादेरुपासनार्थतया नेतव्यत्वे तन्नयायेन विग्रहादेरपि तादर्थ्यं स्यादिति पूर्वाक्षेपेण संगतिरित्याह-अथेति । प्रसङ्ग एव संगतिरित्यन्ये । भवदवस्थायां--वर्तमानावस्थायाम् । स एवोल्लेख:-भविष्यत्त्वेनोलेखः । भवतः-वर्तमानस्य । कथितस्येत्यनन्तरमीश्वरस्येति शेषः । प्रतिक्षणमिति । मूलभूतस्य कारणस्याभावे कार्यायोगात्तादृशसंततिरेव स्यात्तथाऽपि तदङ्गीकारे निर्हेतुकवादस्स्यादिति भावः । द्वितीयेऽपीति । भविष्यत्त्वरूपधर्मज्ञानविरहात् किंचिज्ज्ञत्वप्रसङ्ग इति भावः । सा चबुद्धिरपीत्यर्थः । निवृत्तिमती-- अनित्या। आदिशब्देन अनित्याऽपि कारणजन्या न वेत्यादिविकल्पोऽभिप्रेतः । अतीतवस्तुन्यतीतत्वेन बुद्धौ तस्य भविष्यत्तादशायामप्युल्लेखस्स्यात् । तथात्वे वस्तुनो द्वैरूप्यं

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426