Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
गरः ३] विस्मयकृद्भगवदुदन्तानासकोचादिशक्तिस्थूलाद्यवस्थाभेदादिमिर्निर्वाहात्सत्यता 313
सर्वार्थसिद्धिः सङ्कोचशक्तिर्विकासशक्तिस्तत्तदभिमानविषयसजातीयोत्पादनशक्तिस्सूक्ष्म. स्थूलावस्थाभेदः परिमितविग्रहव्यङ्गयापरिमित स्वरूपलक्षणमित्यादिकं यथार्हमवधारणीयम् । एवम् "अणोरणीयान् महतो महीयान्" इत्यादीनि ब्रह्मस्वरूपविषयवाक्यान्यपि तत्तदविरुद्धार्थविवक्षया नेतव्यानि । वस्त्वन्तरादृष्टवैचित्रयमात्रेण विरोधशङ्कायां सर्वत्रातिप्रसङ्गः स्यादिति ।। ७५ ।।
इति आश्चर्यवृत्तान्तविशेषसत्यत्वम् .
आनन्ददायिनी शक्तिवशात् परिमिततया प्रतिपन्ननन्दनन्दनविग्रहस्य यदा जगहहिः ष्ठमिव लक्ष्यते तदा संकोचः, विकासशक्तिमत्त्वात् यदोदरगतं दृश्यते तदा विकासः । कालभेदस्य सौक्ष्म्यात् पत्रशतवेधन्यायेन योगपद्याभिमानः। तत्तदात्मत्वेन भेदाग्रहविषयपदार्थान्तरसृष्टया बाह्यान्तरवस्तुनो भेदाग्रहः । भगवत एव स्थलसूक्ष्मविग्रहभेदे स्थूलापेक्षयाऽन्तःस्थत्वं सूक्ष्मापेक्षया बाह्यता स्थौल्याग्रहाद्वा विग्रहैक्याभिमानः । यद्वा-जालरन्ध्रेण सूर्यो गृह्यमाणो जालमध्यगत इव भासते, तद्वत् सूक्ष्मशरीरद्वारेण सर्वस्यापि व्यङ्ग्यतया तन्मध्यगतत्वेन भानमिति भावः । परिमितेति । विग्रहकाले अपरिमितं विग्रहान्तरं गृह्यते, तेन तदपेक्षयाऽन्तवर्तित्वं परिमितापेक्षया बहिःष्ठत्वमित्यादिकमादिशब्दार्थः । नन्वणुत्वमहत्वे अपि स्वरूपस्य स्यातामित्यत्राह-एवमिति । अणुत्वमहत्वयोरेकदा विरुद्धत्वाद्विग्रहभेदेन वा स्वरूपे महत्त्वं विग्रहेऽणुत्वमिति वा एकस्मिन्नेव विग्रहे कालभेदेनैव वा निर्वाह्यमित्यर्थः । एतादृशसामर्थ्यस्यान्यत्रादर्शनन्मिथ्यात्वमिति शङ्कायामननादीनामितरवस्तुवैजात्यं ? व्यवहितग्रहणहेतुत्वादिकं च न स्यादित्याह-वस्त्वन्तरेति । मूल, विश्वान्तर्वर्तीति-विश्वान्ततिनो बालम्योदरे विश्वमन्तर्वर्तीति विरुद्धमित्यर्थः ॥ ७५ ॥
आश्चर्यवृत्तान्तविशेषसत्यत्वम्,
1 स्वरूपमित्या-पा.

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426