Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
310
सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
[नायक
तत्त्वमुक्ताकलापः
युक्तिः प्रश्नोत्तरादेर्न हि पुरुषभिदां बुद्धिभेदं च
मुक्त्वा
तस्मादयहादिभेदे कतिचन पुरुषाः स्युः परे
णानुबद्धाः ।
सर्वार्थसिद्धिः
।
पुनरपि परव्यूहादिषु पुरुषभेदमाशङ्कते - युक्तिरिति । आदिशब्देन कृष्णबलभद्रादिषु मिथो ' विवाद कोपादि संगृह्यते । अस्ति ताव - त्सात्वतादिषु गुरुशिष्य' न्यायेन वासुदेवसंकर्षणादीनां प्रश्नप्रतिवचनक्रमेण विद्याधिगमः । तत्र न तावत् स्वात्मानं स्वयं पृच्छति प्रतिवदति वा ; हेतुप्रयोजनयोरसंभवात् । अतः प्रष्टृप्रतिवक्तचेतनभेदः कल्प्य इति । ननु भेदकानिश्चये कथं भेदक्लृप्तिरित्यत्राह बुद्धिभेदं च मुक्त्वेति । न्यून बुद्धिः पृच्छेदधिकबुद्धिरनुशास्तीति लोकवेदप्रसिद्धमिति भावः । एतदन्यथासिद्धमित्यभिप्रायेण प्रति
1 विषाद - पा.
आनन्ददायिनी
पूर्वाक्षेपेण सङ्गतिरित्याह- पुनरपीति । आदिशब्देन नरनारायणादिग्रहः । हेतु : अज्ञानं, प्रयोजनं - ज्ञानम् । न्यूनबुद्धिरिति । न्यूनाधिक
2 न्याये वासु - पा. 3 बुद्धिः परिपू - पा. 4 प्रतिवक्ति - पा.

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426