SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 310 सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप [नायक तत्त्वमुक्ताकलापः युक्तिः प्रश्नोत्तरादेर्न हि पुरुषभिदां बुद्धिभेदं च मुक्त्वा तस्मादयहादिभेदे कतिचन पुरुषाः स्युः परे णानुबद्धाः । सर्वार्थसिद्धिः । पुनरपि परव्यूहादिषु पुरुषभेदमाशङ्कते - युक्तिरिति । आदिशब्देन कृष्णबलभद्रादिषु मिथो ' विवाद कोपादि संगृह्यते । अस्ति ताव - त्सात्वतादिषु गुरुशिष्य' न्यायेन वासुदेवसंकर्षणादीनां प्रश्नप्रतिवचनक्रमेण विद्याधिगमः । तत्र न तावत् स्वात्मानं स्वयं पृच्छति प्रतिवदति वा ; हेतुप्रयोजनयोरसंभवात् । अतः प्रष्टृप्रतिवक्तचेतनभेदः कल्प्य इति । ननु भेदकानिश्चये कथं भेदक्लृप्तिरित्यत्राह बुद्धिभेदं च मुक्त्वेति । न्यून बुद्धिः पृच्छेदधिकबुद्धिरनुशास्तीति लोकवेदप्रसिद्धमिति भावः । एतदन्यथासिद्धमित्यभिप्रायेण प्रति 1 विषाद - पा. आनन्ददायिनी पूर्वाक्षेपेण सङ्गतिरित्याह- पुनरपीति । आदिशब्देन नरनारायणादिग्रहः । हेतु : अज्ञानं, प्रयोजनं - ज्ञानम् । न्यूनबुद्धिरिति । न्यूनाधिक 2 न्याये वासु - पा. 3 बुद्धिः परिपू - पा. 4 प्रतिवक्ति - पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy