________________
सरः ३] एकस्मिन्नवेश्वरेदृश्यमानप्रष्टत्वप्रतिवक्तृत्वयोरभिनयतासमर्थन,तत्फलकथनं च 311
तत्त्वमुक्ताकलापः तन्न स्वच्छन्दलीलः स्वयमभिनयति स्वान्यता सर्ववेदी
तद्वच्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन् सानुकम्पः ॥ ७४ ॥
सर्वार्थसिद्धिः क्षिपति--तन्नेति । चेतनभेदाभावेऽपि प्रश्नोत्तराद्युपपत्तिमाहस्वच्छन्दलील इति । स्वयामित्यनेन स्वस्यैवेति गम्यते। अभिनयप्रयोजनमाह-तद्वदिति । शिष्याचार्यादिभिरेवं वर्तितव्यामिति धार्मिकशिक्षणं देवस्य दयान्वितलीलाप्रसूतमिति भावः ॥ ७४ ।।
इति ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् .
आनन्ददायिनी बुद्धयोरेककालीनयोराश्रयभेदकत्वादिति भावः । चेतनभेदाभावेऽपीति। इच्छैव हेतुरिति भावः । फलाभावशङ्काऽपि नेत्याह-अभिनयप्रयोजनमिति । मूल--अनुबद्धाः-परस्य व्यष्टिभूता इत्यर्थः ।। ७४ ॥
ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् .