Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 400
________________ मर. ३] ईश्वरस्वरूपे समष्टिव्यष्टिभेदमनोमयत्वादिव्यूहत्रयकल्पनस्य निरसनम् 309 तत्त्वमुक्ताकलापः मायादायादपक्षः श्रुतिरपि नियतैरस्त्वधिष्ठानभेदैः !! ७३ ॥ सर्वार्थसिद्धिः मायादायादपक्ष:-मायार्जितभ्रान्तिविभागोपजीविपक्षः ; स ते म्यादिति शेषः । सत्यम् . ईश्वरमनभ्युपगच्छतामीश्वरत्रित्वश्रुतिस्तर्हि निरधिष्ठानभ्रमविषया स्यादित्यत्राह-श्रुतिरपीति । अयं भावः-ईश्वरस्तावन्मायोपहिते ब्रह्मणि कल्प्यताम् ; त्रित्वं च तस्य द्विचन्द्रादिन्यायात् मायाविलासविप्लुतब्रह्माधिष्ठानतया स्वीक्रियतामिति । यद्वा मनोमयादिविभागवादिनी श्रुतिः कथं निर्वोढव्येत्यत्राह-श्रतिरपीति । अपिशब्द इह एतादृशश्रुत्यसंभवाभिप्रायः । संभवेऽप्युच्यते परोपकारकमनःप्रभृत्यधिष्ठानभेदादीश्वरस्य मनोमयत्वादिविभागो निरुह्यतामिति ।। ७३ ॥ इति ईश्वरस्वरूपविषयसमष्टिव्यष्टयादिवादनिरामः. आनन्ददायिनी भावः । सत्यमिति । ईश्वराधिकरणककर्तृकत्वप्रतिपादकत्वान्मनोमयादिश्रुतेरिति भावः । नन्वधिष्ठानभूतब्रह्मण एकत्वात्तत्र भेदाभावात्तद्विषयतया च तद्विषयश्रुतिः कथं निर्वाह्यति तत्रैवाकाङ्क्षा तत्रैवाधिष्ठानशब्दश्चास्वरस इत्यभिप्रायेणाह-यद्वेति । मूलं--विकृतिः परिणामः । निर्विकारागमा:-निर्विकारश्रुतयः ॥ ७३ ॥ ईश्वरस्वरूपविषयसमष्टिव्यष्टयादिवादनिरासः. 1 इह तादृ-पा.

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426