Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 394
________________ सरः ३] सङ्कर्षणादिब्यूहत्रये पराभेदसत्त्वेऽप्यभिमानलीलात्रयव्यवस्थासमर्थनम् 303 तत्त्वमुक्ताकलापः सर्वस्यैकोऽभिमन्ता स हि मकलजगद्व्यापतिब्वेककर्ता ॥ ७० ॥ सर्वार्थसिद्धिः सर्वस्येति । न हि विश्वमूर्तेरभिमानः कश्चित्संकुचति, न च सहारादौ क्वचिदुदास्ते, न च हिरण्यगर्भादिवद्विशेषणभूतचेतनान्तराण्यत्र वचनान्तरप्राप्तानि ; प्रत्युतैक्यमेव प्रतिपादितमित्याशयः ॥ ७० ॥ इति व्यहेषु विशेषाभिमानादिविरोधपरिहारः. __आनन्ददायिनी संकुचति-प्रादेशिक इत्यर्थः । न च संहारादौ क्वचिददास्ते-- संहारादिव्यापारे कर्तव्ये क्वचित् प्रदेशविशेष उदासीनो भवति, परमात्मन एकदेशे सजिही भाव इत्यर्थः । तदन्यपुरुषाङ्गीकारे तु प्रदशभेदेन प्रलयादिक स्यात् , त्रयाणां तुल्यतया प्रतिबन्धप्रसङ्ग इति भावः । मूलं-प्रतितनु-शरीरभदेन, अभिमतिः अभिमानं, लयःसहारः, रक्षा रक्षणं, तेषां, द्वन्द्वान्ते श्रूयामाणो विधिशब्दः प्रत्येक संबध्यते, तौ-अभिमती रक्षाविधिश्च । 'पुमांस्त्रिया' इति पुंसः शेषः ॥ ७० ॥ व्यूहेषु विशेषाभि'मानादिविरोधपरिहारः. 1 मानविरो-पा.

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426