________________
सरः ३] सङ्कर्षणादिब्यूहत्रये पराभेदसत्त्वेऽप्यभिमानलीलात्रयव्यवस्थासमर्थनम्
303
तत्त्वमुक्ताकलापः सर्वस्यैकोऽभिमन्ता स हि मकलजगद्व्यापतिब्वेककर्ता ॥ ७० ॥
सर्वार्थसिद्धिः सर्वस्येति । न हि विश्वमूर्तेरभिमानः कश्चित्संकुचति, न च सहारादौ क्वचिदुदास्ते, न च हिरण्यगर्भादिवद्विशेषणभूतचेतनान्तराण्यत्र वचनान्तरप्राप्तानि ; प्रत्युतैक्यमेव प्रतिपादितमित्याशयः ॥ ७० ॥
इति व्यहेषु विशेषाभिमानादिविरोधपरिहारः.
__आनन्ददायिनी संकुचति-प्रादेशिक इत्यर्थः । न च संहारादौ क्वचिददास्ते-- संहारादिव्यापारे कर्तव्ये क्वचित् प्रदेशविशेष उदासीनो भवति, परमात्मन एकदेशे सजिही भाव इत्यर्थः । तदन्यपुरुषाङ्गीकारे तु प्रदशभेदेन प्रलयादिक स्यात् , त्रयाणां तुल्यतया प्रतिबन्धप्रसङ्ग इति भावः । मूलं-प्रतितनु-शरीरभदेन, अभिमतिः अभिमानं, लयःसहारः, रक्षा रक्षणं, तेषां, द्वन्द्वान्ते श्रूयामाणो विधिशब्दः प्रत्येक संबध्यते, तौ-अभिमती रक्षाविधिश्च । 'पुमांस्त्रिया' इति पुंसः शेषः ॥ ७० ॥
व्यूहेषु विशेषाभि'मानादिविरोधपरिहारः.
1 मानविरो-पा.