________________
नायक
ह
301
सव्याख्यसवार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक
तत्त्वमुक्ताकलापः त्रिव्यूहः कापि देवः क्वचिदपि हि चतुर्व्यह उक्तस्तदेवं
व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु । ___ तनाये व्यूहभेदे त्रियुगगुणतया चिन्ननीये परस्मा
द्युक्ताभेदाविवक्षा तदनुपगमने तत्त्वसंख्यादिबाधः ॥ ७१ ॥
सर्वार्थसिद्धिः मानमेयमलिम्लुचाम्त्वाहुः-त्रिव्यूहचतुव्यूहवाक्ययोर्विरोधात् सर्वमेतदुपासनार्थं कल्पनामात्रसिद्धमिति । तदनुब्रूते-त्रिव्यूह इति । प्रतिवदति-तन्नेति। विरोधं शमयति-आद्य इति । वस्तुतश्चतुव्यूहत्वेऽप्याद्यव्यूहस्य षड्गुणतयाऽनुसन्धेयत्वात् परस्मादभेदं विवक्षित्वा त्रिव्यूहत्वोक्तिः प्रवृत्तति न मिथो बाधश्शनीय इति हृदयम् । उक्तप्रकारानभ्युपगमेऽतिप्रसङ्गमाह-तदनुपगमन इति । एवमिह प्रसङ्गः
-यदि न्यूनाधिकनिर्देशमात्राद्विरोधः, तदा कचिदप्यनुक्तमन्यतो ग्राह्य न स्यात् । ततश्च विद्यैक्ये गुणोपसंहारस्त्यज्येत ; तथा
आनन्ददायिनी आक्षेपसङ्गति दर्शयति-मानमेयेति । उपासनार्थमिति । तथासति नार्थविरोधोऽर्थस्यैकरूप्यादिति भावः । विद्युक्य इत्युपलक्षणम् | कर्मकाण्डेऽपि शाखाभेदेनाम्नातानामुपसंहारो न स्यादिति द्रष्टव्यम् ।