Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 381
________________ 290 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः निरंशत्वं प्रासञ्जयितुं न शक्यमिति भावः । यत्तु कैश्चिदुच्यते--नित्यं निष्कलं निर्विकारं च परं ब्रह्म शारीरश्रुत्या स्वरूपत एव विचित्रविग्रहाकारम् ; तत एव विग्रहनित्यत्वम् ; न चात्र स्वरूपविग्रहयोर्भेदः, नापि भेदाभेदप्रसङ्ग इति, न तद्भावनीयम् ; अन्यथा विश्वाद्वैतस्यापि संग्राह्यत्वप्रसङ्गादिति ॥ ६५ ॥ इति परविग्रहनित्यत्वम्. आनन्ददायिनी बाधितत्वादिति भावः । माध्वमतमनुवदति-यत्त्विति । तद्दषयतिन तद्भावनीयमिति । 'निष्कलं-निर्विकारम् ' इत्यादिश्रुत्या निरवयवत्वनिर्विकारत्वादिप्रतिपादनात् । यदि प्रमाणविरुद्धमपि सिध्येत्तदाऽऽहअन्यथेति । विज्ञानघनत्वादिप्रतिपादनस्य जडतादात्म्येऽपि विरोधाभावप्रतिपादनप्रसङ्गादिति भावः । अत्र केचिद्भगवतो विग्रहा नित्या एवेति वदन्ति । तथा सति " विग्रहे च व्यूहविभवादयः, कालकर्माधीनपरिणाममात्रं हि तेषु निषेध्यं, न तु भगवत्संकल्पमात्रकृतमपि । तदेवं शरीराण्यपि कानिचिन्नित्यानामीश्वरस्य वा अनित्येच्छापरिग्रहादनित्यानि" इत्यादिन्यायसिद्धाञ्जनग्रन्थविरोधः ।। ६५ ।। परविग्रहनित्यत्वम्

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426