________________
290
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः निरंशत्वं प्रासञ्जयितुं न शक्यमिति भावः । यत्तु कैश्चिदुच्यते--नित्यं निष्कलं निर्विकारं च परं ब्रह्म शारीरश्रुत्या स्वरूपत एव विचित्रविग्रहाकारम् ; तत एव विग्रहनित्यत्वम् ; न चात्र स्वरूपविग्रहयोर्भेदः, नापि भेदाभेदप्रसङ्ग इति, न तद्भावनीयम् ; अन्यथा विश्वाद्वैतस्यापि संग्राह्यत्वप्रसङ्गादिति ॥ ६५ ॥
इति परविग्रहनित्यत्वम्.
आनन्ददायिनी बाधितत्वादिति भावः । माध्वमतमनुवदति-यत्त्विति । तद्दषयतिन तद्भावनीयमिति । 'निष्कलं-निर्विकारम् ' इत्यादिश्रुत्या निरवयवत्वनिर्विकारत्वादिप्रतिपादनात् । यदि प्रमाणविरुद्धमपि सिध्येत्तदाऽऽहअन्यथेति । विज्ञानघनत्वादिप्रतिपादनस्य जडतादात्म्येऽपि विरोधाभावप्रतिपादनप्रसङ्गादिति भावः । अत्र केचिद्भगवतो विग्रहा नित्या एवेति वदन्ति । तथा सति " विग्रहे च व्यूहविभवादयः, कालकर्माधीनपरिणाममात्रं हि तेषु निषेध्यं, न तु भगवत्संकल्पमात्रकृतमपि । तदेवं शरीराण्यपि कानिचिन्नित्यानामीश्वरस्य वा अनित्येच्छापरिग्रहादनित्यानि" इत्यादिन्यायसिद्धाञ्जनग्रन्थविरोधः ।। ६५ ।।
परविग्रहनित्यत्वम्