________________
सरः ३] परविग्रहस्य नित्यत्वम् , अवतारविग्रहाणा तदिच्छागृहीतत्वोपादन च 289
तत्त्वमुक्ताकलापः नित्येच्छातस्तथा तत्तदिह विहतिमान् सांशजन्मादितर्कः ॥६५॥
सर्वार्थसिद्धिः ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥ इति । वैष्णवे पुराणे-" सदैकरूपरूपाय" इति । "इच्छागृहीताभिमतोरुदेहः" इति स्मरणाद्विग्रहस्येच्छागृहीतत्वे कथं नित्यत्वम् . तस्मिन् वा कथं तदित्यत्राह-नित्येच्छात इति । अयं भाव:-- अवतारविग्रहेषु तावदिच्छागृहीतत्वमविरुद्धम् । नित्येऽप्यनिच्छायामनित्यत्वप्रसङ्गमभिसन्धाय नित्येच्छाधीनस्थितित्वविवक्षयेच्छागृहीतत्ववाचोयुक्तियुक्तेति । अत्र तर्कबाधं परिहरति-तदिति । तथा - प्रमाणसिद्धत्वादित्यर्थः । सांशत्वेन जन्मादिसहितत्व तद्विरहेण वा
आनन्ददायिनी सदैकरूप रूपं यस्येति विग्रहात् सदैकरूपत्वोक्तरिति भावः । ननु " नित्येच्छातस्तदा तत्" इत्यनेन नित्येच्छासिद्धत्वमुक्तम् । न च नित्यजन्यत्वेन नित्यत्वम् , सर्वस्यापि नित्येश्वरजन्यत्वेन नित्यत्वप्रसङ्गादित्यत आह-अयं भाव इति । भगवतो विग्रहा द्विविधाः, नित्या अनित्याश्च । तत्रानित्यविषयमिच्छागृहीतवचनमिति भावः। साधारण्येऽपि न दोष इत्याह---नित्येऽपीति । इच्छाव्यतिरेके विग्रहव्यतिरक इति व्याप्तिसंभवादित्यर्थः । सांशत्वेनेत्यादि । प्रमाण
1 श्रीवैष्णवे-पा. SARVARTHA VOL. IV.