________________
288
सव्याख्यसर्वार्थसिद्धि महिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः निर्दिष्टं पौष्करादौ स्वयमखिलकृता स्वं वपुनित्यसिद्ध
नित्या लिङ्गेति चैकायननिगमविदो वाक्यभाष्यादि चैवम्। नित्यत्वं वासुदेवायवपुषि जगौ मोक्षधर्म
मुनीन्द्रो
सर्वार्थसिद्धिः अथ परविग्रहनित्यतां प्रमाणतः स्थापयति-निर्दिष्टमिति । श्रीपौष्करे तावत्
नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । इति । श्रीसात्वते च "नित्यं नित्याकृतिधरं" इति भगवन्मूर्ति 'प्रस्तुत्य "नित्या लिङ्गा स्वभावसंसिद्धिः” इति रहस्याम्नायोक्तमाह--नित्येति । अत्र ब्रह्मनन्यादिसंप्रदायमाह-वाक्येति । आप्ततमोपबृंहणमाह-नित्यत्वमिति । यथानित्य हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
आनन्ददायिनी अत्रापि पूर्वसङ्गतिरेवेत्यभिप्रायेणाह-अथेति । तदाकारः -तस्य विग्रहः । नित्या लिङ्गा–लिङ्गानि विग्रहाः । लिङ्गव्यत्ययइछान्दसः । स्वभावतस्संसिद्धेत्यर्थे कर्मणि क्तिन् । वाक्यकारोऽपि.... इत्यभिप्रायेणाह-अत्रेति । आदिपदेन द्रामिडभाष्यकारादयः । आप्ततमेति । “भारतः पञ्चमो वेदः" इति प्रसिद्धेरिति भावः ।
1 प्रकृत्य-पा.