SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सरः ३] अप्राकृतस्थानादेर्नित्यत्वेऽनुपपत्त्यभावसमर्थनम् 257 तत्त्वमुक्ताकलापः नित्येऽपि स्यानिमित्तानुगतिनियमितस्तत्तदाख्याविशेषः ॥ ६४ ॥ सर्वार्थसिद्धिः नित्ये चानित्ये च निमित्ताविशेषात् परेषां पृथिव्यादिशब्दः, तथाऽत्रापि तत्तद्गणतारतम्यनिमित्तस्तत्तच्छब्द इति नित्यत्वाविरोधः ॥ ६४ ॥ इति अप्राकृतस्थानादेरनित्यत्वादिपरिहारः, आनन्ददायिनी नन्वत्र ‘संख्ययाऽव्ययासन्न' इति बहुव्रीहिर्न संभवति, तत्र पदद्वयस्यैव समासोक्तः। अनेकेषां समासेऽपि 'बहुव्रीहौ' इति समासान्तप्रसङ्गादिति चेत् , अत्राहु:--द्वन्द्वो वा समासः। नच 'त्यदादीनि' इति समासबाधः । 'संख्याया अल्पीयस्या.' इति 'द्वये कयोः' इति निर्देशेन च सख्याशब्देषु तदप्रवृत्तिज्ञापनात् । अत एव द्वौ वा द्वौ वेति विग्रहे एकशेषमात्रस्य अप्रवृत्त्या द्विशब्दे बहुवचनाभावात्सर्वत्र द्विवचनमेवेति शाब्दानां वचनमप्युपपद्यते। अत एव 'येकयोः' इति द्विवचनमिति वदद्भिश्शाब्दो - वचननिर्देश एव भावप्रधाननिर्देशे हेतूकृतो न त्वेकशेषप्रसङ्गः । सरूपद्वन्द्वाभावस्त्वनभिधानात्। यद्वा बहुव्रीहिरेव समासः । समासान्तशास्त्रस्यानित्यत्वाद्वा तदुपपत्तिरिति । एकद्वित्रेति पाठ इत्यन्ये । तथाऽत्रापीति । शब्दमात्रगुणकमाकाशशब्दवाच्यं, शब्दस्पर्शमात्रगुणकं वायु. शब्दवाच्यं, शब्दस्पर्शरूपगुणकं तेजश्शब्दवाच्यं, तदेव रसविशिष्टं जलशब्दवाच्यं, तदेव गन्धसहितं पृथिवीशब्दवाच्यमिति नित्यानित्यसाधारण्यमिति भावः ॥ ६४ ॥ अप्राकृतस्थानादेरनित्यत्वादिपरिहारः. __1 धारणमिति-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy