SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 236 सव्याख्यसर्वार्थसिद्धिमाहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः तत्त्वान्यप्राकृतानि त्रिगुण इव परीणामतश्चे द्रवेयुः स्थानादि स्यादनित्यं न यदि न घटते भूततादीति चेन्न। _ अत्रत्यक्ष्मादितत्त्वक्रमनियतगुणप्रक्रियायैकरूप्या सर्वार्थसिद्धिः दिव्यस्थानादनित्यत्वमाक्षिप्य प्रत्याह-तत्त्वानीत्यर्धेन । त्रिगुण इव -त्रिगुणद्रव्ये यथा परिणामतः पृथिव्यादिविभागस्तथेत्यर्थः । स्थानादि स्यादनित्यमिति । सङ्घातिनामनित्यत्वे कथं तत्सङ्घातनित्यत्वमिति भावः । अपरिणामपक्षं शङ्कते-न यदीति । तत्र चोद्यमाह-न घटत इति । अप्राकृतपञ्चभूतादिव्यपदेशो न युज्यत इत्यर्थः । नित्येष्वप्याकाशादिपञ्चभूतसमाख्यानिवेशस्यान्यथासिद्धिमाह-अत्रत्येति । त्रिगुणविकृतीनां हि तत्त्वानां परिणतिविशेषादेकद्वित्रयादिगुणनियतिः। दिव्यतत्त्वानां तु नित्यसिद्धा। ततश्च यथा __ आनन्ददायिनी पूर्वसङ्गत्याऽऽह--दिव्यस्थानादेरिति । संघातिनामिति । पृथिव्यादीनामनित्यत्वे तत्संघातभूतस्थानादीनामनित्यत्व मिति भावः । आदिशब्देन विग्रहादेब्रहः । अप्राकृतेति । आकाशादिक्रमेणोत्पत्तावेव ह्येकद्वयादिगुणयोगनिमित्ताकाशादिव्यपदेश इति भावः । अन्यथासिद्धिः--प्रकारान्तरेण निर्वाहः। एकद्विवयादिगुणनियतिरिति । 1 अनित्येष्वप्या-पा. 2 द्वित्रादि-पा. मित्यर्थ.-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy