________________
सरः ३] नित्यविभूतेस्स्वप्रकाशत्वेन सा बद्धान् प्रत्ययवभासेनेत्याक्षेपस्य परिहार 285
सर्वार्थसिद्धिः स्वधर्मो वा ? पूर्वत्र स्वप्रकाशत्वहानिः । उत्तरत्रानादिरागन्तुको वा ? आये बद्धान् प्रत्यप्यनादिरिति भानप्रसङ्गो दुरि । द्वितीये कारणानिरूपणादसभवः । मैवम् ; न ह्या गन्तूनां सर्वेषां विशेषकारणमस्माभिर्विविच्यते । न चास्मदविवेचितामति नास्ति ; अतिप्रसङ्गात् । सामान्यकारणं तु विश्वकर्तुरिच्छादिक श्रुतमेव । अत एव हि नित्यानां मुक्तानां च स्वच्छन्दचिकीर्षासन्ततिभेदसिद्धिरिति ।। ६३ ॥
इति नित्यविभूतेरजडत्वपक्षोपपत्तिः.
आनन्ददायिनी नित्यविभूतिगोचरधर्मः । स्वधर्म:--नित्यविभूतिधर्मः । अत्र किं विशेषकारणानिरूपणं विवक्षित, यद्वा सामान्य कारण निरूपणं, नाद्य इत्याह-न ह्यागन्तूनामिति । अतिप्रसङ्गादिति । विद्युदादेर्जन्यत्वाभावप्रसङ्गादिति भाव. । द्वितीय आह सामान्येति । वस्तुतोऽप्राकृतकार्ये भगवदिच्छैव विशेष कारण तदतिरिक्त तु नापेक्ष्यमित्याहअत एव हीति । विश्वकर्तुरिच्छात इत्यर्थः । मूलं--चुलुकयति --- विषयीकरोति । न विलसति-न प्रकाशते । मतिविभवः-मतिविभुत्वम् ॥ ६३ ॥
नित्यविभूतेरजडत्वपक्षोपपत्तिः.
1गन्तुकाना-पा
इत्यत्राह-ग.