________________
284
सव्याख्यसर्वार्थसिद्धि पहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः वेद्यानु'द्रासकाले मतिरिव न तु सा बन्धकाले विभाति ॥ ६३ ॥
सर्वार्थसिद्धिः मपि स्वप्रकाशत्वं नापति, तथा सर्वज्ञैस्तत्तद्धिया साक्षाक्रियमागस्यापि शुद्धसत्त्वस्य स्वप्रकाशत्वमविरुद्धमिति । तर्हि सर्वसाधारण्याद् बद्धान् प्रत्यपि भासतेत्यत्राह- वेद्येति । यथा धर्मभूतज्ञानस्य विषयग्रहणवेलायां स्वाश्रयायैव भातीत्यवस्थाभेदात् पुरुषभेदाच्च भाननियमः, तथा स्वसाक्षात्कर्तृणामेव स्वयमपि प्रकाशत इति व्यवस्थायां न कश्चिद्वाधः । पुरुषाणां नैरपेक्ष्यं न वस्तुस्वभावं प्रतिरुणद्धीति भावः । नन्वयं प्रकाशः स्वविषयबुद्धिधर्मो वा,
आनन्ददायिनी ननु सुषुप्तिकाले स्वप्रका शत्वं प्रयोजनवदेव, तदा धर्मभूतज्ञानाभावादिति चेन्न । तथाऽपि नित्येश्वराणां प्रयोजनाभावात् स्वप्रकाशत्वं न स्यात्। प्रयोजनाभावेऽपि प्रमाणबलात् स्वीकारे शुद्धसत्त्वेऽपि तुल्यमिति भावः । शङ्कते---तीति । अवस्थाभेदात्-विषयग्रहणावस्थाभेदात् । पुरुषभेदात्-तदाश्रयभेदात् , यथा धर्मभूतज्ञानं खप्रकाशत्वेऽपि न सर्व प्रति प्रकाशत्वेन सर्वदा प्रकाशते, तथा स्वसाक्षात्कारकाले तत्तत्पुरुषान्प्रति प्रकाशावस्थावत्त्वादयं नियम इत्यर्थः । ननु तर्हि स्वसाक्षात्कारेणैव प्रकाशोपपत्तौ किमस्य प्रकाशताङ्गीकारणेत्यत्राह --- पुरुषाणामिति । प्रकाशः--प्रकाशत्वं । स्वविषयबुद्धिधर्मः
1द्भानका-पा.
शत्वे प्रयो-ग.