________________
नित्यविभूतेस्स्वप्रकाशत्वेऽनुपपत्त्यभावोपपादनम्
तत्त्वमुक्ताकलापः निस्संकोचा समस्तं चुलकति मतिर्नित्यमुक्तेश्वराणां
बद्धानां नित्यभूतिर्न विलसति ततः कस्य सा स्वप्रकाशा।
मैवं नित्येश्वरादेस्सति प्रतिविभवे साऽस्तु तेनानपेक्षा
सर्वार्थसिद्धिः नन्विह जडपक्ष एव साधीयान् , पक्षान्तरं तु न संभवमृच्छतीत्यभिप्रायेण चोदयति-निस्सङ्कोचेति । न हि कंचित्पुरुषमनपेक्ष्य किंचित्प्रकाशत इति संभवति । पुरुषास्तु नित्यमुक्तेश्वरास्सर्वज्ञा निष्प्रतिघया स्वधर्मभूतधिया सर्व साक्षात्कुर्वते । बद्धानां तु नित्यविभूतिर्न प्रकाशत एव । अतः स्वप्रकाशत्व न स्यादित्याक्षेपः । तत्र यथाश्रुतस्वारस्यसक्तस्समाधत्ते--मैवमिति । अभिप्रेतं विवृणोतिनित्येति । यथाऽऽत्मनां नित्यस्वप्रकाशानां धर्मभूतथीगृह्यमाणदशाया
आनन्ददायिनी आक्षेपसङ्गत्याऽऽह-नन्विति। तत्र किं नित्यमुक्तेश्वरान् प्रति स प्रकाशो व्यवहारहेतुः, उत बद्धान् प्रतीति विकल्प्याद्य आहपुरुषास्त्विति । तेन नित्यविभूतस्तान् प्रति तदुक्तिर्युक्तेति भावः । द्वितीय दूषयति- बद्धानां त्विति । स्वगोचरज्ञानं विनेति शेषः । तत्र यथाश्रुतेति। न हि प्रयोजनमपेक्ष्य श्रुत्यर्थकल्पना, किं तु श्रुतानुसारेण वस्तुसत्त्वमङ्गीकामिति भावः । यथाऽऽत्मनामिति ।