________________
282
___ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः भगवान् ' इति प्रतिवचनात् ; 'किमात्मको भगवान् ' इति पुनरनुयोगेच 'ज्ञानात्मकः' इत्यादिप्रत्युक्तेः, शक्त्यामकत्वादिवन्मुख्य त्वविरोधाभावाच,
स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् । इत्युपबृंहणस्वारस्याच्च विषयाश्रयावच्छेदनिरपेक्षं स्वगोचरज्ञाननिरपेक्षप्रकाशनत्वनिमित्तेनात्मनीव ज्ञानत्वं मुख्यामिति ॥ ६२ ॥
इति नित्यविभूतेर्जडत्वाजडत्वपक्षौ.
आनन्ददायिनी सान्तत्वविरोधादिति भावः । शक्तयात्मकत्वादीति । विशेषणत्वाद्यथा
शक्तिरूपत्वं तथा ज्ञानत्वमपि न विरुद्धमिति भावः । उपबृंहणस्वारस्याच्चेति । स्वसत्तां भासयतीति प्रतीतेरिति भावः । ननु विषयाद्यवच्छेद्याभावे कथ ज्ञानत्वमित्यत्राह-विषयेति । स्वगोचरज्ञाननिरपेक्षत्वस्यैव ज्ञानशब्दप्रवृत्तिनिमित्तत्वादिति भावः । ज्ञानत्वाजाड्यकण्ठोक्तीति मूलम्-ज्ञानत्वरूपं यदजाड्यं तस्य कण्ठोक्तिरित्यर्थः ।। ६२॥
नित्यविभूतिजडत्वाजडत्वपक्षौ.
1 से विरो-पा. 2 शक्त्यात्मकत्व तथा-क.
स्वसत्ता गायतीति ?-ग.