________________
सरः ३]
नित्यविभूतेजडत्वस्वप्रकाशत्वपक्षद्वयोपादनम्
281
तत्त्वमुक्ताकलापः तत्संबन्धात कुतश्चित्तदुपचरणमित्याहु रेके परे तु
ज्ञानत्वाजाड्यकण्ठोक्त्यनुगुणमवदन्मुख्यतामात्मनीव ॥६२॥
सर्वार्थसिद्धिः चेन्न ; चेतनत्वप्रसङ्गात् । न च तदप्यन्त्विति वाच्यम् , जीवेश्वरविकल्पबाधात् । षाड्गुण्यमयत्वमौपचारिकमिति चेत् , ज्ञानमयत्यमपि तथैव स्यादविशेषात् । अतस्त्रिगुणविभूतिरिवाद्यापि सा विभूतिरन्याधीनसिद्धितया जडैवेति कुतस्तत्र ज्ञानत्वोक्तिरित्यत्राहतत्संबन्धादिति । निश्शेषाविद्यानिवृत्तिहेतुतया, निरुपाधिकज्ञानविकासस्थानतया, अन्यतो वा कुतश्चित्संबन्धात् “ आयुर्घतम् '' इतिवजडेऽपि ज्ञानत्वोपचार इत्यवोचन् केचित् । पक्षान्तरमुपक्षिपतिपरेविति । 'किमात्मि कैवैषा भगवतो व्यक्तिः' इत्यनुयोगे ‘यदात्मको
आनन्ददायिनी आनन्दं नाम तल्लोकं परमानन्दलक्षणम् । पाड्गुण्यप्रचुरा नित्यं स्वाच्छन्द्यादेशतां गतः ।
" पूर्णषाड्गुण्यविग्रहम् 'इत्यादिभिः सिद्धमित्यर्थः । “ अन्नमयो यज्ञः" " मल्लमयो ग्रामः" इतिवत्तदाश्रयत्वप्रतीतेस्तदङ्गीकारे चेतनत्व स्यादित्याह-चेतनत्वेति । जीवेश्वरेति । जीवत्वेऽतिप्रसङ्गादीश्वरत्वे
1 रेकेऽपरे-पा. श्रुत्यादिप्र?-ग.
कैषा पा
स्वच्छत्स्याद्वेशता-ग. जीवत्वे