Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 384
________________ सर. ३] परमात्मनोऽस्त्रभूषणादिमत्त्व साफल्यसमर्थनम् तत्त्वमुक्ताकलापः तचेतस्याश्रितार्थं तदधिकरणकं सर्वमप्येव मस्तु ॥ ६६ ॥ 293 सर्वार्थसिद्धिः परिगृहीतेनेति चोदयतां किमेते प्रत्युत्तरं ब्रूयुः १ अथ योगविशेषसक्तानां चित्तालम्बनसिद्ध्यर्थमीश्वरस्य दिव्यगात्रपरिग्रह इति, तथैवास्त्रभूषणादिपरिग्रहोऽपीति तुल्यप्रमाणसिद्धत्वादेष्टव्यम् । न च शान्त्यर्थभावना विरोधः, यथोपदेशमस्त्राद्युपयोगस्य स्वीकार्यत्वात्, “ दामोदरं बन्धगत.' 1 इत्यादिवत् । तथा भगवज्जन्मादिवेदिनो जन्मादिनिवृत्तिश्व स्मर्यते । ऊहमात्रेण विरोधक्लप्तिस्त्वतिप्रसक्त्यै स्यादिति ॥ ६६ ॥ इति परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः. 1 इतिवत्-पा. आनन्ददायिनी 66 " तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे । " इत्युक्तरीत्या समाधान वक्तुमाह - अथेति । यथोपदेशमिति । भक्तानिष्टनिरसनादेः प्रयोजनत्वादिति भावः । " ज्वरार्तो जलशायिनम् " इत्यादिशब्दार्थः । स्मर्यत इति । जन्म कर्म च मे 2 दिव्यं त्वेवं यो वेत्ति तत्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ इत्यादिरित्यर्थः । ऊहमात्रेणेति । आयुधा दिमत्त्वाङ्गीकारेऽवाप्तसमस्तकामत्वविरोधो लोकवदित्यादितर्कैरित्यर्थः । तथा सति श्रौतमात्रे तर्केण बाधः शक्योत्प्रेक्ष इति भावः । तदधिकरणकं सर्वमिति मूलं - शरीराधिकरणकमस्त्रभूषणादिकमित्यर्थः ॥ ६६ ॥ परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः 2 दिव्यमेवं- पा. 3 दिधृत्यङ्गी-ग. १६

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426