________________
सर. ३]
परमात्मनोऽस्त्रभूषणादिमत्त्व साफल्यसमर्थनम्
तत्त्वमुक्ताकलापः
तचेतस्याश्रितार्थं तदधिकरणकं सर्वमप्येव
मस्तु ॥ ६६ ॥
293
सर्वार्थसिद्धिः
परिगृहीतेनेति चोदयतां किमेते प्रत्युत्तरं ब्रूयुः १ अथ योगविशेषसक्तानां चित्तालम्बनसिद्ध्यर्थमीश्वरस्य दिव्यगात्रपरिग्रह इति, तथैवास्त्रभूषणादिपरिग्रहोऽपीति तुल्यप्रमाणसिद्धत्वादेष्टव्यम् । न च शान्त्यर्थभावना विरोधः, यथोपदेशमस्त्राद्युपयोगस्य स्वीकार्यत्वात्, “ दामोदरं बन्धगत.' 1 इत्यादिवत् । तथा भगवज्जन्मादिवेदिनो जन्मादिनिवृत्तिश्व स्मर्यते । ऊहमात्रेण विरोधक्लप्तिस्त्वतिप्रसक्त्यै स्यादिति ॥ ६६ ॥ इति परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः.
1 इतिवत्-पा.
आनन्ददायिनी
66
" तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे । " इत्युक्तरीत्या समाधान वक्तुमाह - अथेति । यथोपदेशमिति । भक्तानिष्टनिरसनादेः प्रयोजनत्वादिति भावः । " ज्वरार्तो जलशायिनम् " इत्यादिशब्दार्थः । स्मर्यत इति ।
जन्म कर्म च मे 2 दिव्यं त्वेवं यो वेत्ति तत्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥
इत्यादिरित्यर्थः । ऊहमात्रेणेति । आयुधा दिमत्त्वाङ्गीकारेऽवाप्तसमस्तकामत्वविरोधो लोकवदित्यादितर्कैरित्यर्थः । तथा सति श्रौतमात्रे तर्केण बाधः शक्योत्प्रेक्ष इति भावः । तदधिकरणकं सर्वमिति मूलं - शरीराधिकरणकमस्त्रभूषणादिकमित्यर्थः ॥ ६६ ॥ परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः
2 दिव्यमेवं- पा.
3 दिधृत्यङ्गी-ग.
१६