________________
292
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
नायक
तत्त्वमुक्ताकलापः अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तका मस्य तस्मा
देवो दहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः ।
किं वा देहेन विश्वात्मन इति वदतां किं प्रतिव्युरेते
सर्वार्थसिद्धिः अत इदमुच्यते ---
“न ते रूप न चाकारो नायुधानि न चास्पदम् " इति ; तदिदमनुभाषते-अस्वैरिति । देहेऽपीत्यादिकमुपालम्भकाकुगर्भम् । अपिशब्देन स्वरूपे वीतावरणत्वं व्यज्यते ; तेनातिरोहितम्वभावत्वमनुसन्धत्ते । अत्र प्रतिबन्दिमुखेन परिहारमाह-किं वेति । अयं भावः-विश्वशरीरिण ईश्वरस्य किं विशेषतः केनचिद्विग्रहेण
आनन्ददायिनी रनिष्ट निरसनं च। तत्रावाप्तसमस्तकामत्वान्नेष्टमवाप्तव्यमस्ति ; निर्दुःखत्वात्सर्वसमत्वनानिष्टानामभावाच्च न निवर्तनीयं चेति प्रयोजनाभावान्न तसिद्धिरिति भावः । अत्र जितन्तास्तोत्रवचनमपि संवादयति-अत इति । ननु साध्याभावेऽपि तद्भमायायुधादिकमस्त्वित्यत्राह-अपिशब्देनेति । ननु कथं देहवत्तामात्रेणास्त्रादेः प्रयोजनवत्त्वमित्यत्राह-अयं भाव इति ।
1 निरासश्च-ग.
जनत्व-ग.