Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३]
परमात्मनोऽस्त्रभूषणादिवेफल्यवादिमतानुवादः
291
सर्वार्थसिद्धिः केचिदाहुः--वीरशृङ्गारादिरसानुबन्धीनि अस्त्रभूषणानि ; तानि तदुचिताधिकारिणां यद्यपि तत्तद्विग्रहेष्वनुसंधेयानि, तथाऽप्यत्यन्तनिष्कामानां तादृशचिन्तनमयुक्तं, “ प्रशान्तं साक्षसूत्रकम्" इत्यादिविशेषणाच्च ; न चावाप्तसमस्तकामस्य "निर्दोषो निरनिष्टः" इत्यादिप्रख्यातप्रकारस्य परमात्मनो भूषणादिसाध्यं किंचिदस्ति ।
आनन्ददायिनी अत्रापि पूर्ववत् सङ्गतिरित्यभिप्रायेणाह-केचिदिति । वीररसानुबन्धीनि शङ्खचक्रादीन्यस्त्राणि, शृङ्गाररसानुबन्धानि कौस्तुभादिभूषणानि । तदुचिताधिकारिणामिति । परनिग्रहकामानां नृसिंह. त्रिविक्रमादिध्याने
चक्रं शङ्ख तथा खड़े शाङ्गं नन्दकमेव च ।
शूलं परश्वथ शक्तिः , इत्यादिभिः
हारकेयूरकटककौस्तुभादिविराजितम् ।
गोपिकामध्यगं वेणुं पूरयन्तं रविप्रभम् ।। इत्यादिभिश्च नृसिंहगोपालादिध्यानादावभिधानादिति भावः । प्रशान्तमिति । पुरुषोत्तममन्त्रोपासनध्याने निष्कामानां चिन्तोक्ता। तत्राक्षसूत्रादिकं नास्त्राभरणादिकमिति भावः । ननु तत्तदधिकारिणां तत्तदायुधभूषणादिकं ध्यानोपयोगि भवतु ; निष्कामस्य माऽस्तु ; तथाऽपि त्रवर्गम्येव तत्सद्भावे न किंचित् बाधकमित्यत्राह-न चेति । तत्रास्त्रभूषणादिभिः किंचित्साध्यं प्रयोजनं वक्तव्य, प्रयोजनं चेष्टप्राप्ति
1 णादीनि-पा.
19*

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426