Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 389
________________ 298 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः सदसत्त्वापेक्षम् । 'हविर्देवतासामान्ये हविर्बलीयस्त्व प्रमाणप्रसक्तिवैषम्यात् । विशेषणतः पर्यायतश्च देवताभेदोक्तिस्तथातथोद्देशार्था । विस्तरम्त्वन्यत्र । शिष्टाः-बोधायनटङ्कद्रमिडादयः ॥ ६८ ॥ इति विग्रहादिपञ्चकनिराकरणपरिहारः. वन्य आनन्ददायिनी हविर्देवतेति । अत्र हि देवताया अभावान्न द्रव्यसाम्यस्य प्राबल्यमपि तु द्रव्यस्य प्रत्यक्षत्वेन शीघ्रोपस्थितिकत्वाद्देवताया अतीन्द्रियत्वेन तत्साम्यस्य विलम्बितप्रतीतिकत्वादिति भावः । 'इन्द्राय राज्ञ एकादशकपाल निर्वपेत् ' इत्यारभ्य विहितत्रिपुरोडाशिन्यां 'अभिगमनेनावद्यति' इति सहावदानप्रयुक्तसहप्रदानप्राप्तौ 'नाना वा देवतापृथक्त्वात् ' इति देवतापृथक्त्वात् पृथक्प्रदानं समार्थत, तन्न स्यात् , पृथक्त्वायोगात् । एकस्यैवेन्द्रस्य राजत्वाधिराजत्वादिविशेषणयोगेन भेदाभावात् । तथा च नातिरिक्ता देवता। सौर्यपौष्णचोर्देवताभेदाभावादूहे कर्तव्ये 'सूर्याय जुष्टं निर्वपामि सूर्यायेद पूष्ण इदम्' इत्याद्युद्देशत्यागे चानियमस्स्यादित्यत्राह-विशेषणेति । तत्तद्विशेषणवता तत्तच्छब्देनैवोदेशत्यागः कर्तव्य इति नियमार्थ शास्त्रे नामविशेषणभेदादौपचारिको भेद उक्तः । यथा प्रवर्तनालाघवाद्विधे रन्यतस्सिद्धानिविद्याद्यपेक्षिणो न स्वतस्तत्र प्रयोजकत्वं, तथा विधिगतशब्दस्योपस्थिततया न शब्दान्तरा....हादिना....ह। किं च यथा 'न हिंस्यात्' इति रागप्राप्तहिंसादेरेव शीघ्रोपस्थितिकतया निषेध्यत्वं तथा विधिगतशब्दस्य 1 हविर्दैवतसा-पा. रन्यथासिद्धाथग्नि-ग.

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426