Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३]
अप्राकृतस्थानादेर्नित्यत्वेऽनुपपत्त्यभावसमर्थनम्
257
तत्त्वमुक्ताकलापः नित्येऽपि स्यानिमित्तानुगतिनियमितस्तत्तदाख्याविशेषः ॥ ६४ ॥
सर्वार्थसिद्धिः नित्ये चानित्ये च निमित्ताविशेषात् परेषां पृथिव्यादिशब्दः, तथाऽत्रापि तत्तद्गणतारतम्यनिमित्तस्तत्तच्छब्द इति नित्यत्वाविरोधः ॥ ६४ ॥
इति अप्राकृतस्थानादेरनित्यत्वादिपरिहारः,
आनन्ददायिनी नन्वत्र ‘संख्ययाऽव्ययासन्न' इति बहुव्रीहिर्न संभवति, तत्र पदद्वयस्यैव समासोक्तः। अनेकेषां समासेऽपि 'बहुव्रीहौ' इति समासान्तप्रसङ्गादिति चेत् , अत्राहु:--द्वन्द्वो वा समासः। नच 'त्यदादीनि' इति समासबाधः । 'संख्याया अल्पीयस्या.' इति 'द्वये कयोः' इति निर्देशेन च सख्याशब्देषु तदप्रवृत्तिज्ञापनात् । अत एव द्वौ वा द्वौ वेति विग्रहे एकशेषमात्रस्य अप्रवृत्त्या द्विशब्दे बहुवचनाभावात्सर्वत्र द्विवचनमेवेति शाब्दानां वचनमप्युपपद्यते। अत एव 'येकयोः' इति द्विवचनमिति वदद्भिश्शाब्दो - वचननिर्देश एव भावप्रधाननिर्देशे हेतूकृतो न त्वेकशेषप्रसङ्गः । सरूपद्वन्द्वाभावस्त्वनभिधानात्। यद्वा बहुव्रीहिरेव समासः । समासान्तशास्त्रस्यानित्यत्वाद्वा तदुपपत्तिरिति । एकद्वित्रेति पाठ इत्यन्ये । तथाऽत्रापीति । शब्दमात्रगुणकमाकाशशब्दवाच्यं, शब्दस्पर्शमात्रगुणकं वायु. शब्दवाच्यं, शब्दस्पर्शरूपगुणकं तेजश्शब्दवाच्यं, तदेव रसविशिष्टं जलशब्दवाच्यं, तदेव गन्धसहितं पृथिवीशब्दवाच्यमिति नित्यानित्यसाधारण्यमिति भावः ॥ ६४ ॥
अप्राकृतस्थानादेरनित्यत्वादिपरिहारः.
__1 धारणमिति-ग.

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426