SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सर ३] नियतपौर्वापर्यकस्थले परप्राबल्यानुग्राहकापच्छेदन्यायस्याप्रवृत्तिकथनम् 261 सर्वार्थसिद्धिः नयः, नियमे तूपक्रमनयात् परानुत्पत्तिरेवेति नीतिविदः । इह च त्वयैव प्रसञ्जकप्रतिषेधकयोः पौर्वापर्यनियमः स्थापितः ; अतः परस्यैव दौर्बल्यं प्रत्येतव्यमिति । अनुष्ठाने त्वस्य न्यायस्यानन्यथाभावमभिप्रेत्य आनन्ददायिनी परेण पूर्वस्य बाधः स्यात् । तथा च विकल्पसिद्धान्तो निर्मूलः स्यात् । ननु तत्र ग्रहणाग्रहणवद्विकल्पः किमर्थं नाश्रित इति चेन्न । विकल्पस्याष्टदोषदुष्टत्वेन गत्यभावविषयत्वादिति भावः । नन्वेकवाक्य एवोपक्रमनयो वेदोपक्रमाधिकरणे दर्शितः, कथमत्रेत्यत्राहइह चेति । प्रसञ्जकप्रतिषेधयोरेकवाक्यत्वे नन्वयादिति भावः । उपक्रमत्वं च पूर्वभावित्वमिति बोध्यम् । ननु नियतिमतीत्यनेनैवोक्तार्थाभिधाने पौनरुक्तयमित्यत्राह-अनुष्ठाने विति । शास्त्रनैयत्यं नियतिपदेनोच्यते । अनुष्ठाननैयत्यं सदाशब्देन । तथा च वाक्यस्य नियतपौर्वापर्ये अनुष्ठानस्यैकरूप्ये चोपक्रमन्याय इत्यर्थः । न चैवं ग्रहणाग्रहणवाक्येऽप्युपक्रमन्यायस्स्यादिति वाच्यम् । तत्रानुष्ठाननैयत्याभावात् । न चात्राप्यनुष्ठानाभावात् तदैकरूप्यं 4 नास्तीति वाच्यम् । तद्बोधस्यैवानुष्ठानशब्देन विवक्षितत्वात् तदुपासनानुष्ठानस्य वा संभवा. चति भावः । तथा चास्य न्यायस्य प्रवृत्तिहेतुभूतमनुष्ठानेऽनन्यथाभावमभि प्रेत्येति वाक्यायः । केचित्तु-अनुष्ठानेऽस्य न्यायस्यान्यथाभावमभिप्रेत्येति पठन्ति। तदाऽयमर्थः---अस्यापच्छेदन्यायस्यानुष्ठानविषयतयाऽन्यथासिद्धतया प्रमाणविषयत्वाभावादित्यर्थः । ननूपक्रमोपसंहारयोस्तुल्यत्वेऽयं न्यायो भवेत् । निषेधे तु निषेध्यानुवादस्य निषेधार्थत्वान्न तुल्यत्वम् । ___ 1 ननु ग्रहणा-ग. किमर्थ तत्र नाश्रित-ग. नानन्वया-क. न स्यादिति-ग. ठानेनान्यथा-ग. प्रामाण्यवि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy