SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 260 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक www तत्त्वमुक्ताकलापः नात्रापच्छेदनीतिनियतिमति सदोपक्रमन्यायसिद्धेः सर्वार्थसिद्धिः परनिर्दोषवाक्यसिद्धत्वादद्वैतवद्वैतमपि दुनिषेधमित्यभिप्रायः । ननु प्रतिषेधस्य प्रसक्तिसापेक्षत्वात् भेदप्रसञ्जकवाक्यं पूर्व तन्निषेधकं तु परत्वेनापच्छेदनयात्तद्बाधकं स्यादित्यत्राह–नाति । अत्रेत्यनेनाभिप्रेतं हेतुमाह --नियतिमतीति । अय भावः-अनियतपौर्वापर्ये ह्यपच्छेद __ आनन्ददायिनी पूर्वदौर्बल्यं प्रकृतिवत्' इत्यधिकरणे पौर्वापर्यमेव बाध्यबाधकभावे तन्त्रमिति निर्णीत ; तच्च नियतत्वेऽपि न हीनमिति कथमप्रवृत्तिरित्यत्राहअयं भाव इति । ज्योतिष्टोमे वहिष्पवमानस्तोत्रे ‘पञ्चविंजः समन्वारब्धाः प्रसर्पन्ति अध्वर्यु प्रस्तोताऽन्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ता प्रतिहर्तारं ब्रह्म ब्रह्माणं यजमानः' इत्यन्वारम्भणं 1 विधाय दैवात्तस्य विच्छेदे प्रायश्चित्तं च विहितं यद्युद्गाताऽपच्छिद्येत अदक्षिणो यज्ञः संस्थाप्यः तेन पुनर्यजेत । तत्र तद्दद्यात् यत्पूर्वस्मिन् दास्यन् स्यात् । अथ प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यात्' इति । तत्र यद्येकस्मिन् प्रयोगे पौर्वापर्येणापच्छेदे तन्निभित्तशास्त्रद्वयमपि तत्क्रमेण प्रसक्तम् । तत्र विरोधात्समुच्चयासंभवेऽन्यतरबाधे पूर्वस्यैव बाघस्समर्थितः । तत्रानियतत्वात् पौर्वापर्यस्य प्रयोगान्तरे सावकाशं शास्त्रमिति युक्तं तत्र कस्यचिद्बाधः । इह तु नियते सावकाशत्वाभावात् न बाधो युक्तः । अन्यथाऽतिरात्रे षोडशिग्रहणाग्रहणशास्त्रयोरपि 1 विधायकस्य-ग. 2 अदक्षिणः क्रतुस्सस्थाप्यः-ग. तत्र नियत--ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy