SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सरः ३] भेदस्यापि शास्त्रीयतयाऽभेदश्रुतीनां भेदनिषेधतात्पर्यकत्वाभावकथनम् 259 तत्त्वमुक्ताकलापः निर्दोष यच्च शास्त्रं तदपि बहुविध बोधयत्येव भेदं वाक्ये तत्त्वोपदेशप्रकरणपठिते नान्यपर्यं प्रतीमः । सर्वार्थसिद्धिः असंभावितदोषादौपनिषदवाक्यादद्वैतज्ञानं सिध्यतीति परोक्ते प्रतिबन्दि प्रस्तुवान इव स्वपक्षमपि स्थापयति-निर्दोषमिति । बहुविधं भेदम्-आधाराधेयभावादिभिरीशेशितव्यभेदम् , भोक्तभोग्यनियन्तृभावैस्तत्त्वत्रयभेदम्, अणुत्वविभुत्वादिभिर्जीवेश्वरभेदम् , बद्धमुक्तनित्यतदवान्तरविभागैर्जीवभेदम् , एतेषु च कालभेदेन तत्तदवस्थाभेदं चेत्यर्थः। प्रतिषेधगन्धिना त्वयाऽपि प्रतिषेध्यधीर्दुरपलपत्येवकाराभिप्रायः। प्रस्तुतभेदवाक्यान्यन्यपरत्वान्न भेदं विदधतीत्यत्राह-वाक्य इति । नहि सद्विद्यादिषु कर्मविधय उपासनविषयो वा संनिदधतीति त्वयाऽपि संप्रधार्यते । सन्ति च तत्रापि “अहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इत्यादीनि तत्तव्यस्वरूपव्यापारादिविविधभेदविषयाणि वाक्यानि। अतोऽनन्य आनन्ददायिनी पूर्वसङ्गत्याऽऽह-असंभावितेति । प्रतिबन्धा अनुत्तरत्वाभिप्रायेणाह-स्वपक्षमपीति । अन्यपरत्वादिति । निषेध्यसमर्पकत्वेन निषेधविधिशेषतया निषेध्ये तात्पर्याभावादित्यर्थः । ननु 'पौर्वापर्ये 1 त्वया स-पा. प्रतिबन्धनुत्त-ग. 11*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy