________________
262
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलाप स्वप्रख्याप्यापलापे श्रुतिरपि वृषलोहाहमन्त्रायते वः ॥ ५७ ॥
सर्वार्थसिद्धिः सदाशब्दः । ननु लोकसिद्धान् भेदास्तावत्प्रसिद्धत्वादनुवदति, अलौकिकानपि प्रतिषेधार्थमेवोपदिश्य प्रतिषेधतीति परप्राबल्यं दुर्वारम् , तत्राह-स्वप्रख्याप्येति । अप्रख्यातस्य प्रख्यापनाद्वरं तत्र तूष्णींभावः । न हि भ्रमनिवर्तनाय प्रवृत्तं शास्त्र भ्रामान्तरमुत्पादयतीति त्वदन्यः प्रतिपद्येत । तदिह श्रुतिः प्रत्यक्षाद्यनवगतान् भेदान् स्वयं विधत्ते प्रतिषेधति चेति वृषलविवाहमन्त्रवव्याघात एव परिशष्यत इति भावः । एतेन सगुणनिर्गुणश्रुत्योरपि परप्राबल्यवर्णनं निरस्तम् ॥ ५७॥ इति भेदतन्निषेधश्रुत्योरपच्छेदन्यायानहत्वम् .
आनन्ददायिनी अन्यथा घटो नास्तीत्यत्राप्यास्ति नेत्यनयोर्विरोधेन उपक्रमन्यायप्रसङ्गादिति शङ्कते-नन्विति । नन्वलौकिकभेदे कथं निषेधार्थानुवादोऽप्राप्तत्वादित्यत्राह-अलौकिकेति । सत्यकामादीनित्यर्थः। यथा 'जतिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा जुहुयात् ' इत्यस्य 'अनाहुति4 जतिलाश्च गवीधुकाश्च' इति निषेधार्थानुवादत्वमिति भावः । अप्रख्यातस्येति । जतिलादिवाक्येऽपि न निषेधार्थप्रसञ्जनं, तत्र निषेधविध्यभावात् । अनाहुतिवाक्यस्याजाक्षीरविध्यत्वर्थवादत्वादिति भावः । अस्ति नास्ति, करोति न करोति, भुङ्क्ते न भुङ्क्ते, स्वपिति न स्वपितीत्यादिपरस्परावरुद्धार्थकं द्रविडभाषावाक्यं वृषलोद्वाहमन्त्रः ॥ ५७ ॥
भेदतनिषेधश्रुत्योरपच्छेदन्यायानर्हत्वम् .
1 बल्यं तत्राह-पा.
धार्थत्वानु-ग.